Book Title: Kirtikala
Author(s): Hemchandracharya, Munichandrasuri
Publisher: Sha Bhailal Ambalal Petladwala
View full book text
________________
१५२
श्रीवीतरागस्तवेऽष्टादशः प्रकाशः
-
न शूलचापचक्रादिशस्त्राङ्ककरपल्लवः । नाऽङ्गनाकमनीयाङ्गपरिष्वङ्गपरायणः ॥ ३॥ नेति-भगवन् !,भवान् , शूलचापचक्रादिशस्त्राङ्ककरपल्लबः=
शूलं प्रसिद्धम् , चापं धनुः, चक्रम् , आदिना गदादिपरिग्रहः, तानि शस्त्राणि अाश्चिह्नानि, अङ्के तले वा यस्य स तादृशः, शूलादिशस्त्रधर इत्यर्थः, तादृशः करः कोमलत्वाद्रक्तत्वाच्च पल्लव इव यस्य स तादृशः । न, अस्तीति शेषः । शिवः शूली, शार्ङ्गचापचक्रगदाभृद्धरिः, एवमन्येऽपि परेष्टदेवाः । न केवलं न तादृशशस्त्रभृत्करः, किन्तु-अङ्गनाकमनीयाङ्गपरिष्वङ्गपरायणः%= अङ्गना स्त्री तस्याः कमनीयस्य सुभगस्याऽङ्गस्य परिष्वङ्गे समालिङ्गने परायणस्तत्परः, न, अस्तीति शेषः । सर्वे शिवादयः कृतदारपरिग्रहाः । एवञ्च तादृशगुणवैशिष्टयं न भगवतीति न्यूनता भासते । परमार्थतस्तु भगवतो जगद्धितकृत्त्वाद्वैरिण एवाऽभावाद्भावेऽपि वा माध्य स्थ्यात्कथमिव शस्त्रादिपरिग्रहो भवतु ?, किञ्च वीतरागत्वान्नाङ्ग नासङ्गोऽपि । परे तु रागवन्त इति तदुचित तेषामिति भगवत एव गुणाधिक्यमिति भावः ॥३॥
शरीरादिवैशिष्टयाभावमुक्त्वा भाववैशिष्टयाभावमाहन गर्हणीयचरितप्रकम्पितमहाजनः । न प्रकोपप्रसादादिविडम्बितनरामरः ॥४॥ नेति---भगवन् !, भवान् , गर्हणीयचरितप्रकम्पितमहा
Jain Education International 2010_Bor Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190