Book Title: Kirtikala
Author(s): Hemchandracharya, Munichandrasuri
Publisher: Sha Bhailal Ambalal Petladwala

View full book text
Previous | Next

Page 164
________________ ...कीर्तिकला याख्याविभूषितः १५१ स्वभावशुद्धिमुक्तप्रकारेण लाझयित्वा परुषोक्त्यैव स्तुवन्नाहन पक्षिपशुसिंहादिवाहनासीनविग्रहः । न नेत्रगात्रवक्त्रादिविकारविकृताकृतिः ॥२॥ नेति-भगवन् !, भवान् , पक्षिपशुसिंहादिवाहनासीनविप्रहः पक्षिणो मयूरहंसगरुडादयः, पशुवृषभादिः, सिंहादिः, आदिना मूषकादिपरिग्रहः, तेषु वाहनेषु यानेष्वासीनः स्थितिमान् विग्रहः शरीरं यस्य, तादृशः, न नाऽसि, विष्ण्वादयो हि गरुडाद्यासनासीनाः, शिवादयश्च वृषभादिवाहनासीनाः, दुर्गादयश्च सिंहाद्यासीनाः परतन्त्रे प्रसिद्धाः । यद्यपि सिंहोऽपि पशुरेव, तथापि हिंस्रत्वादन्यत्वाच्च पृथगुक्तिरिति बोध्यम् । तथा, नेत्रगात्रवक्त्रादिविकारविकृताकृतिः = नेत्रम् गात्रं शरीरम् , वक्त्रं मुखम् , आदिना तुन्दादिपरिग्रहः । तेषां विकारै वैषम्यै न्यूंनाधिक्यरूपैः विकृताऽशोभनाऽऽकृतिः स्वरूपं यस्य स तादृशः, शिवस्त्रिनेत्रः, वामनविराटकायादिविष्ण्वादिः, चतुर्मुखादिब्रह्मादिः । न । परेष्टदेववैशिष्टयं भवति न वर्तते । एवञ्चैतावता हीनगुणत्वाभासो जायते । वस्तुतस्तु सावद्यत्वाद् भगवता जीवविशेषवाहनस्य परित्यागः, विकृताकृतेरभावात्सर्वाङ्गसुन्दरता चेत्युत्तमत्वमेव ध्वन्यते । अस्य च षष्ठपद्ये कथं देवत्वेन परीक्षकैः प्रतिष्ठाप्य इत्यनेन सम्बन्धः । एवमग्रिमश्लोकेऽपि बोध्यम् ॥२॥ अन्यवैशिष्टयाऽभावमप्याह-- Jain Education International 2010_Bor Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190