Book Title: Kirtikala
Author(s): Hemchandracharya, Munichandrasuri
Publisher: Sha Bhailal Ambalal Petladwala

View full book text
Previous | Next

Page 162
________________ कीर्तिकलाव्याख्याविभूषितः १४९ तदेवं योग्यस्य स्वस्य मुक्तिमभिलष्यन्नुपसंहरतियावन्नाप्नोमि पदवीं परां त्वदनुभावजाम् । तावन्मयि शरणत्वं मा मुचः शरणश्रिते ॥८॥ इति कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचितश्रीवीतरागस्तवे सप्तदशः प्रकाशः ॥ १७ ॥ यावदिति-भगवन् !, यावत् यदवधि, त्वदनुभावजाम् = त्वत्प्रभावोपनताम् , त्वदुपदर्शितमार्गानुसरणेनैव तत्प्राप्तेरिति भावः । पराम् सर्वोत्कृष्टाम् , पदवीम् प्रतिष्ठाम् , मुक्तिमिति यावत्, तस्या एव सर्वोत्कृष्टत्वादिति भावः, नाप्नोमि = न लभे, तावत् = तदवधि, शरणश्रिते शरणागते, मयि, शरणत्वम्-रक्षकत्वम् , मा मुच:-न विजहीहि । अन्यथा त्रिशकुवन्मध्ये एव भवेयम् । एतेन मुक्तिं यावत्स्वस्य दृढः सङ्कल्पः, न तुपसर्गपरीषहादिनापि क्षोभ इति सूच्यते ॥८॥ इति श्रीकीर्तिचन्द्रविजयगणिविरचितायां श्रीवीतरागस्तवकीर्ति-- कलाख्यायां व्याख्यायां सप्तदशः प्रकाशः ॥ १७ ॥ अष्टादशः प्रकाशः एतावता सोपचारमृदूक्त्या वीतरागमुपश्लोक्य कठोरोक्त्याऽपि स्तुति विधेयैव मनःशुद्धये इति तथैव तुष्ट्रषमाण आह Jain Education International 2010_For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190