________________
कीर्तिकलाव्याख्याविभूषितः
१४९
तदेवं योग्यस्य स्वस्य मुक्तिमभिलष्यन्नुपसंहरतियावन्नाप्नोमि पदवीं परां त्वदनुभावजाम् । तावन्मयि शरणत्वं मा मुचः शरणश्रिते ॥८॥
इति कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचितश्रीवीतरागस्तवे सप्तदशः प्रकाशः ॥ १७ ॥
यावदिति-भगवन् !, यावत् यदवधि, त्वदनुभावजाम् = त्वत्प्रभावोपनताम् , त्वदुपदर्शितमार्गानुसरणेनैव तत्प्राप्तेरिति भावः । पराम् सर्वोत्कृष्टाम् , पदवीम् प्रतिष्ठाम् , मुक्तिमिति यावत्, तस्या एव सर्वोत्कृष्टत्वादिति भावः, नाप्नोमि = न लभे, तावत् = तदवधि, शरणश्रिते शरणागते, मयि, शरणत्वम्-रक्षकत्वम् , मा मुच:-न विजहीहि । अन्यथा त्रिशकुवन्मध्ये एव भवेयम् । एतेन मुक्तिं यावत्स्वस्य दृढः सङ्कल्पः, न तुपसर्गपरीषहादिनापि क्षोभ इति सूच्यते ॥८॥
इति श्रीकीर्तिचन्द्रविजयगणिविरचितायां श्रीवीतरागस्तवकीर्ति-- कलाख्यायां व्याख्यायां सप्तदशः प्रकाशः ॥ १७ ॥
अष्टादशः प्रकाशः
एतावता सोपचारमृदूक्त्या वीतरागमुपश्लोक्य कठोरोक्त्याऽपि स्तुति विधेयैव मनःशुद्धये इति तथैव तुष्ट्रषमाण आह
Jain Education International 2010_For Private & Personal Use Only
www.jainelibrary.org