SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ श्रीवीतसगस्तपेष्टादश: प्रकाश न परं नाम मृद्धेव कठोरमपि फिश्चम । विशेषज्ञाय विज्ञप्यं खामिने स्वान्तशुद्धये ॥१॥ नेति-भगवन् !, विशेषज्ञाय विशेषं वक्तुहृद्तं भावमपि न तु वचनमानं जानातीति स तस्मै, त्वादृशाय सर्वज्ञायेति यावत् । स्वामिने स्वामिवत्पालकायोपचरणीयाय च । एताभ्यां विशेषणाभ्यां कठोरोक्तियोग्यता ज्ञप्तिपात्रता च सूचिता । न, नामेति प्रसिद्धौ । विशेषज्ञाय स्वामिने एवं विज्ञापयन्तीति भावः । परम्=केवलम् , मदु-विनयात्मकत्वाद् हृदयावर्जकत्वादपरुषम् , एवकारोऽवधारणे, तर्हि किमित्यपेक्षायामाह-किञ्चन = सति सम्भवेऽल्पम् , कठोरम-आपाततः परै हीनत्वप्रतिपादनाऽभासादरुचिकरत्वाच्छृतिकटुत्वादविनयात्मकत्वाच्च परुषम् , अपिः समुच्चये । स्वान्तशुद्धये = स्वभक्तिवशात् परेष्टदेवादिबैशिष्टयराहित्यमुखेन सर्वविलक्षणत्वबुद्धया स्वश्रद्धोत्कर्षादिरूपचित्तवृत्तिविशदत्वाय । एतेन स्वान्तशुद्धये हि विहिता कठोरोक्तिः क्षन्तव्या भवति, अन्यथा तु दण्डनीयोऽपराध एवेति सूचितम् । विज्ञप्यम्-स्तुतिमुखेन निवेदनीयम् । ततश्च मया निवेद्यमानं सति सम्भवे परुषमपि भावशुद्धिपूर्वकत्वात्त्वया सर्वज्ञेन भगवता क्षन्तव्यमेव भवेदित्यनुद्वेगः स्वस्य ध्वन्यते । यो ह्यल्पज्ञः, स तु परुषोक्तौ भावशुद्धिमजानन् कुष्येदेवेति स मृदूक्त्यैवोपचरणीयः । अस्वामिने तु निवेदनवार्ताऽप्यनवसस्ग्रस्तेति भावः ॥ १ ॥ Jain Education International 2010_Bor Private & Personal Use Only www.jainelibrary.org
SR No.002579
Book TitleKirtikala
Original Sutra AuthorHemchandracharya
AuthorMunichandrasuri
PublisherSha Bhailal Ambalal Petladwala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy