________________
१४८
श्रीवीतरागस्तवे सप्तदशः प्रकाश:
जगद्धितकृदाश्रितस्य जगद्धितमतिरेवाऽनुगुणेति भावः । एतेन स्वस्य जगबन्धुता सूचिता ॥६॥
। तदेवं सर्वथा स्वस्थो ममत्वं त्यजन् स्वस्याऽनुद्वेगमाह - एकोऽहं नास्ति मे कश्चिन्न चाऽहमपि कस्यचित् । त्वदमिशरणस्थस्य मम दैन्यं न किञ्चन ॥७॥
एक इति-भगवन् !, अहम् , एकः असहायः, ममत्वरहित इति यावत् । तत्र हेतुमाह-मे, कश्चित , नास्ति, यत्र मम 'ममे' तिव्यवहर्त्तव्यम् , तादृशः कोऽपि नास्ति, सर्वस्यैव स्वकर्मवशगत्वात्स्वतन्त्रत्वान्ममेतिव्यवहारस्य मिथ्यात्वात् । एवञ्च तादृशं कल्पितमपि ममत्वं मम क्वापि नास्ति । एतेन स्वस्य निःसङ्गता प्रतिपादिता । ननु भवतो न कश्चिदित्यस्तु, भवानेव कस्यापि स्यादिति चेत्तदपि नेत्याह - अहमपि, अपिः समुच्चये । कस्यचिन्न । उक्तहेतोरेवेति भावः । नन्वेवमसहायस्य तव दैन्यमापततीति चेन्न, तदाह-त्वद िशरणस्थस्यतवाजी एव शरणं तत्र तिष्ठतीति, तस्य तादृशस्य, त्वदाश्रितस्य । मम, किञ्चन नाममात्रतोऽपि, दैन्यम्-दीनता, अहमसहाय इत्येवंभावः, न = नैवास्ति । जगत्सहायस्त्वमेव मम सहाय इति कुतो नाम दैन्यावसरो मयीति भावः । नहि ममत्वत्यागादहमुद्विग्नः, किन्तु सर्वाश्रयत्वदाश्रितो नितरां स्वस्थ इति हृदयम् ॥७॥
Jain Education International 2010_For Private & Personal Use Only
www.jainelibrary.org