________________
कौतिकला यास्याविभूषित
तो यत्फलं तथाभूतान् तद्रूपान् , सिद्धान् = सिद्धाममापन मुक्तान् , अर्हत्त्वस्य सिद्धत्वमेव परिणाम बामसामान्य केवलिनोऽपि सिद्धत्क्परिणामता, तथाऽपि न सांतालिस ने सिद्धत्वं परिणाम इति वक्तुं शेक्यमिति भामा सनरतान् = त्वदाज्ञाराधनैकचित्तान् , मुनीन् = आचार्योपाध्यामसान्, त्वच्छासनम् = त्वदाज्ञाम् , तद्रूपानागमांश्च , चा. . समुच्चये । शरणम्-रक्षकम् , प्रतिपन्नोऽस्मि-स्वीकृतोऽस्मि, रक्षणे साधनान्तराऽभावात् स्वस्थ रक्षणावश्यकत्वाच्च । कथमन्यथा भवोद्धार इति भावः ॥५॥ ___तदेवं शरणं श्रितो लब्धस्वास्थ्यः सत्वेषु क्षमणापूर्विका मैत्री प्रार्थयते
क्षमयामि सर्वान् सत्त्वान् सर्वे क्षाम्यन्तु ते मयि । मैत्र्यस्तु तेषु सर्वेषु त्वदेकशरणस्य मे ॥६॥
क्षमयाभीति- भगवन् !, सर्वान्, न तु कतिपयानेव, प्राणिविराधिनो दुर्गतेरिति भावः, सत्त्वान् जीवान् , षड्जीवकायानिलि. यावत् । क्षमयाभि-तत्कृतापराधान् सहे, तथा, ते प्राणिनः, सर्वे, मयि, क्षाम्यन्तु-मत्कृतापराधान् सहन्तामिति प्रार्थयामि । तथा, त्वदेकशरणस्य त्वमेवैकोऽद्वितीयः शरणं यस्य तस्य, जगद्धितकृत्त्वदेकाश्रितस्य, मे मम, सर्वेषु, तेषु-सत्त्वेषु, मैत्री अद्रोहः, हितमतिरित्यर्थः । अस्तु-जायतामिति प्रार्थये।
Jain Education International 2010_Bor Private & Personal Use Only
www.jainelibrary.org