________________
श्रीवीतरामस्तवे सप्तदशः प्रकाशः
तत्सर्वम् , अहम् , अनुमन्ये स्वीकरोमि समर्थयाम्यनुमोदयाम्यभि नन्दामि वा । साविदं मया कृतम् । पुनः पुनरिस्थमेव कुयाः मित्येवमिति भावः ॥३॥
स्वस्य सम्यक्त्वं प्रकटयन्नर्हदादिगुणेषु श्रद्धामनुमोदयन्नाह -- सर्वेषामर्हदादीनां यो योऽर्हत्त्वादिको गुणः । अनुमोदयामि तं तं सर्व तेषां महात्मनाम् ॥४॥
सर्वेषामिति- नाथ !, सर्वेषाम् = नत्वेकस्य द्वयोरेव वा, समानत्वात्सर्वेषामिति भावः । अर्हदादीनाम् = अर्हत्सिद्धाचार्योपाध्यायसाधूनाम् । यो यः, वीप्सायां द्विवचनम् , गुणानां बाहुल्यादिति बोध्यम् । अर्हत्त्वादिकः = अर्हत्त्वमुक्तप्रकाराऽतिशयादिमत्त्वरूपमादिर्यस्य तादृशोऽहत्त्वसिद्धत्वादिरूपः, गुणः = भावः, तेषां महात्मनाम्=परमात्मनार्हदादीनाम् , अर्हत्त्वादिविशिष्टत्वादितरापेक्षयोत्तमात्मनामित्यर्थः । तं तम् , गुणमित्यनुषज्यते । अनु मोदयामि = श्रद्दधे समर्थयामि च । एतेन स्वसम्यक्त्वं सूचितम् ॥४॥
अत एव चत्वां त्वत्फलभूतान् सिद्धांस्त्वच्छासनरतान् मुनीन् । त्वच्छासन च शरण प्रतिपन्नोऽस्मि भावतः ॥५॥
त्वामिति-भगवन् !, अहम् , भावतः-शुद्धभावनापूर्वकम् , ततु वाङ्मात्रत इत्यर्थः । त्वाम् भवन्तमर्हन्तम् , त्वत्फलभूतान्
Jain Education International 2010_For Private & Personal Use Only
www.jainelibrary.org