________________
(10)
कीर्तिकलाव्याख्याविभूषितः
=
मन इति – नाथ !, कृतानुमतिकारितैः कृतेन स्वयं करणेन, अनुमत्या साध्विदं कृतमेवंकरणमुचितमित्येवमादिप्रकारेणाऽनुमोदनेन, कारितेन प्रेरणया च कृत्वा मनोवाक्कायजे मनसो वाचः कायाच्च जातवति, पापे = अशुभ कर्मणि विषये, मे-मम, दुष्कृतम् = दुरितम्, " अंहो दुरितदुष्कृतमि " त्यमरः । अपुन:क्रियया = न पुनः क्रियाप्रवृत्तिः, तया, अन्वितम् = युक्तम्, प्रायश्चितं हि तदैवार्थवद्यदि पुनर्न तथा प्रवृत्तिरिति भावः । मिथ्या = मोघम्, सदपि निष्फलम्, भूयात् = भवत्विति प्रार्थये । यद्वामे दुष्कृतं कृतानुमतिकारितैरपुनः क्रिययाऽन्वितं यथास्यात्तथा मिथ्या भूयादित्यन्वयः ॥ २ ॥
स्वशुभभावनां सुकृतानुमोदनरूपामाहयत्कृतं सुकृतं किञ्चिद् रत्नत्रितयगोचरम् । तत्सर्वमनुमन्येऽहं मार्गमात्रानुसार्यपि ॥ ३ ॥
--
१४५
यदिति—नाथ !, रत्नत्रितयगोचरम् = रत्नवदुर्लभत्वाद्रत्नानां दर्शनज्ञानचारित्राणां त्रितयम् त्रयम्, तस्य गोचरम् तद्विषयम्, अतएव, मार्गमात्राऽनुसारि - मोक्षमार्गस्यैवाऽनुपाति, नतु स्वर्गद्यैहिकतुच्छकामनाविषय मित्येवकारार्थकेनाऽपिना सूच्यते । तस्य भवाऽनुबन्धित्वादनिष्टत्वाद्वीतरागाश्रितानामनर्हत्वात्तस्याऽन्यतोऽपि लाभसम्भवात् । नहि कोऽपि कल्पद्रुसन्निधौ बदरमिच्छतीति भावः । यत्कि - ञ्चिद्=अल्पमधिकं वा, सुकृतम् = शुभं कर्म कृतम् - उपार्जितम् ,
=
Jain Education International 2010_dor Private & Personal Use Only
www.jainelibrary.org