________________
सप्तदशः प्रकाशः
शरणागतो हि रक्ष्यत इत्यनुसन्धाय भगवच्छरणं प्रपद्यमान आह---
स्वकृतं दुष्कृतं गर्हन् सुकृतं चानुमोदयन् । नाथ ! त्वच्चरणौ यामि शरणं शरणोज्झितः ॥१॥
स्वकृतमिति–नाथ !, स्वकृतम् = पुराऽऽत्मनोपार्जितम् , दुष्कृतम् = अशुभं कर्म, गर्हन् = निन्दन् , धिग्दुष्कृतं येनाऽहं विगोपित इत्येवमनुशोचन् , यथा न पुनस्तत्र प्रवृत्तिः स्यादिति भावः । सुकृतम् शुभं कर्म, चेन स्वकृतमित्यनुषज्यते । अनुमोदयन् = अभिनन्दन् , यथाऽऽभीक्ष्ण्येन तत्र प्रवृत्तिः स्यादिति भावः । शरणोज्झितः शरणेनोज्झितो रहितः, अन्यस्य तादृशस्याऽभावान्मयैव वाऽनर्हत्वादनाश्रितत्वाद्वेति भावः । त्वच्चरणौ, शरणम्-रक्षकम् , यामि-स्वीकरोमि, त्वच्चरणावेव शरणं बुवाऽशुभनिविण्णः शुभभावनाभावितचित्तवृत्तिरनन्यशरणस्त्वां शरणमुपाश्रये इत्यर्थः । एतेन स्वस्य सम्यक्त्वं सूचितम् ॥१॥
न गह-मात्रेण कृतं निष्फलं भवतीत्यतो दुष्कृतस्य नैष्फल्यं प्रार्थयमान आह
मनोवाकायजे पापे कृतानुमतिकारितैः । मिथ्या मे दुष्कृतं भूयादपुनःक्रिययाऽन्वितम् ॥२॥
Jain Education International 2010_Bor Private & Personal Use Only
www.jainelibrary.org