________________
कीर्तिकलाव्याख्याविभूषितः
१४३
ज्ञाता तात ! त्वमेवैकस्त्वत्तो नाऽन्यः कृपापरः । नान्यो मत्तः कृपापात्रमेधि यत्कृत्यकर्मठः ॥९॥
इति कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचितश्रीवीतरागस्तवे गोडशः प्रकाशः ॥ १६ ॥
ज्ञातेति-तात !-पितृवत्पालकत्वात्पितः !, त्वमेवैकः, न वन्यः, तवैव सर्वज्ञत्वादिति भावः । ज्ञाता-सर्वज्ञः, एवं च त्वां न जानामीति त्वत्कथाया नाऽवसर इति भावः । तथा, त्वत्तः त्वामपेक्ष्य, त्वदधिकमित्यर्थः । अन्यः त्वद्भिन्नः कोऽपि, कृपापरः = कारुणिकः, न, त्वमेव परमः कारुणिकः, निर्हेतुककरुणावत्त्वादिति भावः । नन्वस्त्येतत्तेन किम् ?, कृपापात्रे एव कृपाऽवसर इति चेत्तत्राह-मत्तः = मामपेक्ष्य, मदधिकमित्यर्थः ।। कृपापात्रम् = दयनीयः, न, अस्तीति शेषः । रागादिभिरत्यन्तमर्दितत्वात्त्वदुपासकत्वाच्च । प्रथमं ह्यधिकपीडितः स्वाश्रित एवाऽनुगृह्यते इति भावः । अतएव, यत्कृत्यकर्मठ:-यत्कृत्यं यदा यत्र यत्करणीयं तत्र कर्मठो दक्षः, एधि = भव । मय्यनुग्रहः प्राप्तकाल इति मयि दयस्व । नहीदानी मय्युपेक्षाऽवसर इति स्वयं त्वं वेत्स्येव ज्ञातृत्वादिति भावः ॥९॥
इति श्रीकीर्तिचन्द्रविजयगणिविरचितायां श्रीवीतरागस्तवकीर्तिकलाख्यायां व्याख्यायां षोडशः प्रकाशः ॥१६॥
Jain Education International 2010_3or Private & Personal Use Only
www.jainelibrary.org