________________
१४२
श्रीवीतरागस्तवे षोडशः प्रकाश:
तस्मात् , तारय तारय-द्विरुक्तिः स्वस्याऽसहायत्वात्प्रार्थनातिशयसूचनार्थम् वीप्सायाम् । रागादीन् विनाशय, भवाब्धिपारं च प्रापयेत्यर्थः ॥२॥
स्वयंसम्बर्धितोपेक्षणमनुचितमित्युपालभते--- भवत्प्रसादेनैवाऽहमियती प्रापितो भुवम् ।
औदासीन्येन नेदानीं तव युक्तमुपेक्षितुम् ॥८॥
भवदिति-भगवन् !, अहम् त्वदुपासकः, भवत्प्रसादेनैव= त्वदनुग्रहत एव, नाऽन्यथा स्वप्रयत्नादिना, तव सदुपदेशमाप्यैव त्वदुपास्तिबुद्धिभावादिति भावः । इयतीम् एतावतीम् , त्वदुपासनाऽवधिमित्यर्थः । भुवम् भूमिम् , उपलक्षणत्वादवस्थामित्यर्थः । प्रापितः नीतोऽस्मि, त्वदुपास्त्यादिशुभप्रवृत्ति मम त्वदनुग्रहवशादेव, स्वयं तु रागादिग्रस्तस्य मम नेदृशी प्रवृत्तिः सम्भाव्यत इति भावः । ननु तेन किमिति चेत्तत्राह-इदानीम् इदृशावस्थाप्राप्तौ सत्याम् , तव, औदासीन्येन माव्यस्थ्येन, तव मध्यस्थस्वभावत्वाद्धेतोः, उपेक्षितुम् उदासितुम् , न युक्तम् । भवतु नाम तव सर्वदा सर्वत्र माध्यस्थ्यम् , किन्तु यथा परमकारुणिकतया निर्हेतुकहितकृत्तया च शुभे प्रवर्तितवानसि, तथाऽग्रेऽपि नय । नहि त्वादृशस्यैकतःप्रसादोऽन्यत उपेक्षा च सङ्गच्छते । एवञ्च यथाऽद्यावधि मध्यस्थोऽपि सन् प्रसादं कृतवानसि, तथाऽग्रेऽपि कुरु । 'अङ्गीकृतं सुकृतिनः परिपालयन्ती' ति भावः ॥ ८ ॥
ननु त्वं प्रसादपात्रमिति नाऽहं जानामीति चेत्तत्राह---
Jain Education International 2010_Bor Private & Personal Use Only
www.jainelibrary.org