________________
कीर्तिकलाव्याल्याविभूषितः
१४१
त्रातरि रक्षके सति, यत् , मोहादिमलिम्लुचैः मोहादय एवाऽपहारप्रवीणत्वान्मलिम्लुचास्तस्कराः, तैः, मे, रत्नत्रयम् सम्यग्ज्ञानदर्शनचारित्ररूपं दुर्लभत्वाद्रत्नरूपम् , ह्रियते-मुष्यते, विनाश्यत इति यावत् । अत एव दुश्चेष्टितानि मम प्राप्तत्वत्सम्बोधेरपि, ज्ञानादिसत्त्वे हि न तानि सम्भवन्तीति भावः । तत् , हताशः, हत: नष्टोऽस्मि, नहि रक्षके सति रत्नापहरणं युक्तम् । अन्यथा तु रत्नाशा हतैवेति हत एव रत्नमतिरित्यतस्त्राता त्वमप्युपालभ्य एवेति भावः ॥६॥
ननु तयन्यस्त्राताऽन्वेषणीय इति चेत्तत्राह-- भ्रान्तस्तीर्थानि दृष्टस्त्वं मयैकस्तेषु तारकः । तत्तवाङ्घौ विलग्नोऽस्मि नाथ ! तारय तारय ॥७॥
भ्रान्त इति–नाथ !, मया, तीर्थानि तरन्ति भवाम्भोधिमेभिरिति तानि, तीर्थत्वेन प्रतिपादितानि बौद्धादीनीत्यर्थः, भ्रान्तः = 'तारकाऽन्वेषणार्थ पर्यटितः, परतीर्थानि तारकाणि रक्षकाणि न वेति परीक्षितः, किन्तु, तेषु तीर्थेषु, त्वमेकः त्वमेव, नन्वन्यः, तारकः= रक्षको भवोदधिपारप्रापकः, दृष्टः परीक्षयोपलब्धः । वीतरागत्वात्स्वयं तीर्णत्वान्निहेतुकपरमकारुणिकत्वाजगद्धितकृत्वाच्च । अन्ये तु रागादिपरवशाःस्वयमतीणी इति कथं ते परतारका इति भावः । तत-तस्मात्कारणात् , तव, अङ्घौ-चरणे, विलग्नः पतितः, अस्मि, त्वच्चरजोपासकोऽहं जातोऽस्मि, त्वामेव रक्षकं तारकं चाश्रित इति यावत् ।
Jain Education International 2010_030r Private & Personal Use Only
___www.jainelibrary.org