________________
१४०
श्रीवीतरागस्तवे षोडशः प्रकाशः
इत्याह
यद्वाऽलं रागादिविगोपनया प्राप्तसंबोधे र्ममैव सर्वोऽपराध
"
प्राप्याsपि तव सम्बोधिं मनोवाक्कायकर्मजैः । दुश्चेष्टितैर्मया नाथ ! शिरसि ज्वलितोऽनलः ॥ ५ ॥ प्राप्येति - नाथ !, तव = त्वदुपज्ञम् सम्बोधिम् - सम्यग्ज्ञानम्, आगमादिद्वारेति भावः । प्राप्य = अधिगम्याऽपि, अपिना तदप्राप्तौ त्वज्ञत्वादपराधो न गण्येतेति सूच्यते । मनोवाक्कायकर्मजैः = आस्रवजैः, दुश्चेष्टितैः = अशुभाचरणैः, मया, शिरसि = मस्तके, अनलः = अग्निः, ज्वालितः प्रदीपितः, यथा हि कोऽपि अनलेन दाहं जानन्नपि प्रमादाद्वाऽयापारेषु व्यापाराद्वा स्वशिरस्येवाग्नि दीपयित्वा प्राणान्तपीडामनुभवति, तथाऽहमपि त्वत्सदुपदेशेन रागादेरनर्थकारित्वं जानन्नपि सावद्याचरणैः कृत्वा स्वं भवगर्ते पातितवानस्मि, रागादिस्तु व्याजमात्रम्,
ततश्च प्रज्ञा
पराध एष ममेति भावः ॥ ५॥
अहं यथाऽस्मि तथाऽस्मि, रागादि र्वा बलवानस्तु त्वं
कथमुदासीन इत्युपालभते
त्वय्यपि त्रातरि त्रातर्यन्मोहादि मलिम्लुचैः । रत्नत्रयं मे हियते, हताशो हा हतोऽस्मि तत् ॥६॥ त्वय्यपीति - त्रातः !, त्वयि - निष्कारणवत्सले निर्हेतुकहितकृति, अपिना तादृशे त्रातरि सत्येतत्र युक्तमिति सूच्यते ।
Jain Education International 2010_dor Private & Personal Use Only
www.jainelibrary.org