________________
कीर्तिकलाब्याख्याविभूषितः
क्षीयते, चित्तशुद्धिश्च जायते, यथा न तत्र पुनःप्रवृत्तिः स्यात् । मम तु तत्तथा नेति तन्निन्दनीयमेवेति भावः ॥३॥
मोहादीन् तत्कृत्यप्रदर्शनेन निन्दतिक्षणं सक्तः क्षणं मुक्तः क्षणं क्रुद्धः क्षणं क्षमी । मोहाद्यैः क्रीडयैवाऽहं कारितः कपिचापलम् ॥४॥
क्षणमिति-भगवन् !, अहम् , मोहाद्यैः-मोहप्रकारैः रागादिभिः कपिनर्तकतुल्यैः प्रयोजकः, क्रीडया लीलया, एवकारेणाऽऽयासव्यवच्छेदः, सहजत एवेत्यर्थः । क्षणम् = किञ्चित्कालम् , स्वार्थेच्छयेति भावः, सक्तः शब्दादिविषयाभिमुखः, क्षणम् स्वार्थ जाते, मुक्ता विषयपराङ्मुखः, क्षणम् स्वार्थहानी सत्याम, क्रुद्धः= स्वार्थविघ्नेष्विति भावः । क्षणम्-कीत्याधभिलाषयाऽशक्त्या वा, क्षमी-क्षमावान् , अपकारिश्वपीति भावः । रागादिमूला हि प्रवृत्तिः स्वार्थाधीना भवतीति सा न चिरकालं तिष्ठतीति भावः । एवम्प्रकारेण, कपिचापलम् कपिवदनवस्थितिम् , “ चापलं त्वनवस्थितिः" (अ. चि. ।२।३१५।) इति । कारितः, यथा हि कपि न किञ्चिदपि स्थिरं करोति, स्वभावचपलत्वात् , तथाऽहमपि रागादिवशो न स्थिर इति भावः । यद्वा कपिचापलं कपिनृत्यं कारितः । यथा हि कपिनर्तकः स्वेच्छया कपिं नानाप्रकारेण नर्तयति, तथा रागादिभिरहं स्वेच्छया सङ्गादिमान् कारित इति वाऽर्थः । तदेतान् मोहादीन् धिक् , अवश्यहेया इमे इति भावः ॥४॥
Jain Education International 2010_Bor Private & Personal Use Only
www.jainelibrary.org