________________
१३८
श्रीवीतरागस्तवे षोडशः प्रकाशः
--
वहिता । ततश्च द्वाभ्यामाकृष्यमाण उपरि शिखासु गृहीत्वैकया नीचैश्च पदोश्च गृहीत्वा चाऽपरया च भार्ययाऽऽकृष्यमाणपुरुषः वत्सङ्कटे पतितोऽस्मीति परमानन्दानुभवेच्छा न फलतीत्यतो हेतोःहताशः = निष्फलमनोरथः, किं करवाणि ? = किं कार्यमिति न स्फुरतीत्यर्थः । तादृश आनन्दो हीष्टः, अतएव स न हेयः, रागश्च जिहासितोऽपि बलवत्त्वात्स मूर्छयत्येव मामिति निरुपायों जातोऽस्मीति भावः ॥२॥
तदेवं निर्विणः स्वदुरितमवमन्यमान आहरागाऽहिगरलाघ्रातोऽकार्ष यत्कर्म वैशसम् । तद्वक्तुमप्यशक्तोऽस्मि धिङ् मे प्रच्छन्नपापताम् ॥३॥
रागेति- भगवन् !, रागाऽहिगरलाघ्रातः रागाहिगरलेन रागोरगविषेणाघ्रातो ग्रस्तः, यत् यत्प्रकारम् , वैशसम् = हिंसादिसङ्कुलत्वादशुभम् , कर्म, पापं कर्मेति समुदायार्थः । अकापम् , तत्=तत्प्रकारं पापं कर्म, वक्तुम् = प्रतिपाद्य प्रकाशयितुम् , अपिना तादृशकर्मणोऽतिपापतया त्रपाकरत्वम् , अस
ङ्ख्यातत्वमनन्तत्वं वा सूच्यते, अत एव, अशक्तः= असमर्थः. अस्मि, प्रकाशनीयमलज्जाकरं परिमितं च कर्म कोऽपि शक्नोति प्रकाशयितुमिति भावः । पापस्याऽप्रकाशने हि स्वस्य प्रच्छन्नपापत्वमापततीत्यत आह-मे-मम, प्रच्छन्नपापताम्-तुष्णीं पापकृस्वम् , धिक-निन्दनीयमित्यर्थः । पापं हि महत्स प्रकाशनेन
Jain Education International 2010_Bor Private & Personal Use Only
www.jainelibrary.org