________________
(9)*
कीर्तिकलान्याख्याविभूषितः
नवैराग्यमिव परमतज्ञानजशम इव वा क्षणिक इति सूच्यते । माम् त्वन्मताऽमृतपायकम् , परमानन्दसम्पदम्परमा इतर्विका क्षणत्वादुत्कृष्टो य आनन्दस्तस्य सम्पदं समृद्धिम्, न लगता मेव, पराणयन्ति बलादनुभावयन्ति । एतेन भगवन्मतज्ञानजसमक नित आनन्दो नाऽल्पो जघन्यो वा । किश्च भगकामताज्ञाने नैव परमानन्दलाभ इति ध्वन्यते ॥१॥
नन्वितस्तथाऽन्यतः किमित्यपेक्षायामाहइतश्चाऽनादिसंस्कारमूर्च्छितो मूर्छयत्यलम् । रागोरगविषावेगो हताशः करवाणि किम् ? ॥२॥
इत इति-भगवन् !, इतः अन्यस्मात्पार्थात् , चःपूर्वपद्योक्तार्थसमुच्चये । अनादिसंस्कारमूर्च्छितः अनादिसंस्कारेणाऽनादिकालाद्रागादिसम्पर्कजनितवासनया मूच्छितः प्रसृतः, आत्मनः सर्वप्रदेशमभिव्याप्य स्थित इत्यर्थः । मूर्च्छतेःप्रसरणार्थस्य प्रयोगः"न पादपोन्मूलनशक्ति रंहः शिलोच्चये मूर्च्छति मारुतस्ये" त्यादौ । रागोरगविषावेगः रागो विषयाभिलाष एव दुष्परिणामत्वात्सज्ज्ञाननाशकत्वाच्चोरगविषं तस्याऽऽवेगस्त्वरा, त्वरितप्रवृत्तिरिति यावत् । " आवेगस्तु त्वरिस्तुर्णिः संवेगः सम्भ्रमस्त्वरा" (अ. चि. २।३२२।) इति । अलम् अत्यर्थम् , मूर्च्छयति = मोहं प्रापयति, यथा त्वन्मतपानजशमजनितानन्दानुभवः सान्तरायो भवतीति भावः । यथा भवच्छेदसामग्री समवहिता, तथैव भवबन्धसामग्यपि बलवती सम
Jain Education International 2010_Bor Private & Personal Use Only
www.jainelibrary.org