Book Title: Kirtikala
Author(s): Hemchandracharya, Munichandrasuri
Publisher: Sha Bhailal Ambalal Petladwala

View full book text
Previous | Next

Page 151
________________ १३८ श्रीवीतरागस्तवे षोडशः प्रकाशः -- वहिता । ततश्च द्वाभ्यामाकृष्यमाण उपरि शिखासु गृहीत्वैकया नीचैश्च पदोश्च गृहीत्वा चाऽपरया च भार्ययाऽऽकृष्यमाणपुरुषः वत्सङ्कटे पतितोऽस्मीति परमानन्दानुभवेच्छा न फलतीत्यतो हेतोःहताशः = निष्फलमनोरथः, किं करवाणि ? = किं कार्यमिति न स्फुरतीत्यर्थः । तादृश आनन्दो हीष्टः, अतएव स न हेयः, रागश्च जिहासितोऽपि बलवत्त्वात्स मूर्छयत्येव मामिति निरुपायों जातोऽस्मीति भावः ॥२॥ तदेवं निर्विणः स्वदुरितमवमन्यमान आहरागाऽहिगरलाघ्रातोऽकार्ष यत्कर्म वैशसम् । तद्वक्तुमप्यशक्तोऽस्मि धिङ् मे प्रच्छन्नपापताम् ॥३॥ रागेति- भगवन् !, रागाऽहिगरलाघ्रातः रागाहिगरलेन रागोरगविषेणाघ्रातो ग्रस्तः, यत् यत्प्रकारम् , वैशसम् = हिंसादिसङ्कुलत्वादशुभम् , कर्म, पापं कर्मेति समुदायार्थः । अकापम् , तत्=तत्प्रकारं पापं कर्म, वक्तुम् = प्रतिपाद्य प्रकाशयितुम् , अपिना तादृशकर्मणोऽतिपापतया त्रपाकरत्वम् , अस ङ्ख्यातत्वमनन्तत्वं वा सूच्यते, अत एव, अशक्तः= असमर्थः. अस्मि, प्रकाशनीयमलज्जाकरं परिमितं च कर्म कोऽपि शक्नोति प्रकाशयितुमिति भावः । पापस्याऽप्रकाशने हि स्वस्य प्रच्छन्नपापत्वमापततीत्यत आह-मे-मम, प्रच्छन्नपापताम्-तुष्णीं पापकृस्वम् , धिक-निन्दनीयमित्यर्थः । पापं हि महत्स प्रकाशनेन Jain Education International 2010_Bor Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190