Book Title: Kirtikala
Author(s): Hemchandracharya, Munichandrasuri
Publisher: Sha Bhailal Ambalal Petladwala

View full book text
Previous | Next

Page 154
________________ कीर्तिकलाव्याल्याविभूषितः १४१ त्रातरि रक्षके सति, यत् , मोहादिमलिम्लुचैः मोहादय एवाऽपहारप्रवीणत्वान्मलिम्लुचास्तस्कराः, तैः, मे, रत्नत्रयम् सम्यग्ज्ञानदर्शनचारित्ररूपं दुर्लभत्वाद्रत्नरूपम् , ह्रियते-मुष्यते, विनाश्यत इति यावत् । अत एव दुश्चेष्टितानि मम प्राप्तत्वत्सम्बोधेरपि, ज्ञानादिसत्त्वे हि न तानि सम्भवन्तीति भावः । तत् , हताशः, हत: नष्टोऽस्मि, नहि रक्षके सति रत्नापहरणं युक्तम् । अन्यथा तु रत्नाशा हतैवेति हत एव रत्नमतिरित्यतस्त्राता त्वमप्युपालभ्य एवेति भावः ॥६॥ ननु तयन्यस्त्राताऽन्वेषणीय इति चेत्तत्राह-- भ्रान्तस्तीर्थानि दृष्टस्त्वं मयैकस्तेषु तारकः । तत्तवाङ्घौ विलग्नोऽस्मि नाथ ! तारय तारय ॥७॥ भ्रान्त इति–नाथ !, मया, तीर्थानि तरन्ति भवाम्भोधिमेभिरिति तानि, तीर्थत्वेन प्रतिपादितानि बौद्धादीनीत्यर्थः, भ्रान्तः = 'तारकाऽन्वेषणार्थ पर्यटितः, परतीर्थानि तारकाणि रक्षकाणि न वेति परीक्षितः, किन्तु, तेषु तीर्थेषु, त्वमेकः त्वमेव, नन्वन्यः, तारकः= रक्षको भवोदधिपारप्रापकः, दृष्टः परीक्षयोपलब्धः । वीतरागत्वात्स्वयं तीर्णत्वान्निहेतुकपरमकारुणिकत्वाजगद्धितकृत्वाच्च । अन्ये तु रागादिपरवशाःस्वयमतीणी इति कथं ते परतारका इति भावः । तत-तस्मात्कारणात् , तव, अङ्घौ-चरणे, विलग्नः पतितः, अस्मि, त्वच्चरजोपासकोऽहं जातोऽस्मि, त्वामेव रक्षकं तारकं चाश्रित इति यावत् । Jain Education International 2010_030r Private & Personal Use Only ___www.jainelibrary.org

Loading...

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190