________________
श्रीवीतरागस्तवे पञ्चदशः प्रकाशः
भावः । यदुक्तम्--" न केवलं यो महतोऽपभाषते शृणोति तस्मादपि यः स दोषभाक्” इति ॥ ६ ॥
भगवदनुसारिणोऽपि सज्ज्ञानित्वात्पूज्या इति तान्नमस्करोतितेभ्यो नमोऽञ्जलिरयं तेषां तान समुपास्महे । त्वच्छासनाऽमृतरसरात्माऽसिच्यताऽन्वहम् ॥७॥
तेभ्य इति - भगवन् !, यैः - यत्प्रकारैः शुभाशयः, आत्मा-निजात्मा, त्वच्छासनामृतरसैः त्वच्छासनान्येवाऽलौकिकशाश्वतानन्दमयमोक्षप्रदत्वादमृतरसा इव, तैः, बहुवचनं विषयबहुत्वापेक्षया बोध्यम् , किञ्च बहुवचनेन भगवच्छासनस्य साकल्येनैव ग्रहणमिष्टमित्यपि सूच्यते । तैः कृत्वा, अन्वहम् अहरहः, न तु यदाकदाचिदेव, असिच्यत-आर्द्राकृतः, येऽनिशं त्वच्छासनारा. धनपरायणा इति सारार्थः । तेभ्यो नमः, तेषाम् , कृते इति शेषः, अयम् सद्य एव, अञ्जलिः = करसम्पुटम् , प्रार्थयामीति यावत् । तान् , समुपास्महे-वरिवस्यामः । त्वद्भक्तोऽपि तवेवो. पचारमहेति, पूतात्मत्वादिति भावः ॥७॥
तदेवं नमस्कारादिना प्रवृद्धभक्तिभर आहभुवे तस्यै नमो यस्यां तव पादनखांशवः । चिरं चूडामणीयन्ते ब्रूमहे किमतः परम् १ ॥८॥
भुवे इति-भगवन् !, यस्याम् यत्प्रकारायां भुवि, तव - सर्वलोकपूज्यस्य, पादनखांशवः चरणनखकिरणाः, चूडामणीयन्ते
Jain Education International 2010_For Private & Personal Use Only
www.jainelibrary.org