________________
कीर्तिकलाच्याख्याविभूषितः
चूडामणिवदाचरन्ति, भुवि मूछिता:पादमखांशपो भुवी भूमिका मणिकिरणा इव भासन्ते, नखांशूनां श्वेतरक्तत्वादिवि भाकरीव तस्यै भुवे, अपिरर्थबलाद्गम्यते । पिरं नमः । मलपि सम्बन्धे तस्याः सदाकालं शुचित्वप्राशस्त्याचनुपात मला पदसम्पर्कोऽप्यचेतनस्याऽपि धन्यत्वायेति भावः । अतः परम इतोऽधिकम् , किंबमहे ? = किंस्तुमः ? नातःपरं स्तुतिवचनं ममशक्यमिति भावः ॥८॥
तदेवं भगवत्स्तुत्या स्वस्याऽहोभावमाहजन्मवानस्मि धन्योऽस्मि कृतकृत्योऽस्मि यन्मुहुः । जातोऽस्मि त्वद्गुणग्रामरामणीयकलम्पटः ॥९॥
इति कसिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचितश्रीवीतरागस्तवे पञ्चदशः प्रकाशः ॥१५॥
जन्मेति-जन्मवान् = प्रशस्तं जन्मास्त्यस्येति स तादृशः, सफलजन्मा, अस्मि,धन्यः-पुण्यवान्, “ सुकृती पुण्यवान् धन्यः" (अ. चि. ।३१४८९।) इति । अस्मि । कृतकृत्यः कृतार्थः, "कृतकर्मणि कृतकृत्यकृतिकृतार्थाश्चे" ति शिलोञ्छः । अस्मि । एतादृशाऽहोभावस्य हेतुमाह-यद्-यतः, मुहुः अभीक्ष्णम् , नतु सकृदेव । त्वद्गुणग्रामरामणीयकलम्पट: तव गुणग्रामो गुण समूहस्तस्य यद्रामणीयकं रमणीयता मनोहरता, तत्र लम्पटो लालसावान् , सतृष्ण इत्यर्थः । तदनुरक्त इति यावत् , । " लम्पटे
Jain Education International 2010_Bor Private & Personal Use Only
www.jainelibrary.org