Book Title: Kirti Kaumudi tatha Sukrut Sankirtan
Author(s): Someshwar Mahakavi, Arisinh Thakkur Kavi, 
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 20
________________ सर्गः । ] कीर्तिकौमुदीमहाकाव्यम् । रागाद् भूपालबल्लाल-मलिकार्जुनयोर्मृधे । गृहीतौ येन मूर्धानौ, स्तनाविव जयश्रियः ॥ दक्षिणक्षितिपं जिल्ला, यो जग्राह द्विपद्वयम् । तद्यशोभिः करिष्यामो विश्वं नश्यद्विपद् वयम् ॥ विहारं कुर्वता वैरिवनितां कुचमण्डलम् । महीमण्डलमुद्दण्डविहारं येन निर्ममे ॥ पादलग्नैर्महीपालैः पशुभिश्च तृणाननैः । यः प्रार्थित इवात्यर्थमहिंसाव्रतमग्रहीत् || भूपालोऽजयपालोऽभूत्, कल्पद्रुमसमस्ततः । चक्रे वसुन्धरा येन, काञ्चनैरनकिञ्चना || दण्डे मण्डपिका हैमी, सह मत्तैर्मतङ्गजैः । दत्त्वा पादं गले येन, जाङ्गलेशादगृह्यत ॥ जामदग्न्य इवोद्दामधामभसितभास्करः । क्षत्त्रास्त्रक्षालितां धात्रीं श्रोत्रियत्राचकार यः ॥ दानानि ददतो नित्यं नित्यं दण्डयतो नृपान् । नित्यमुद्वहतो नारीर्यस्याऽऽसीत् त्रिणः समः ॥ धृतपार्थिवनेपथ्ये, निष्क्रान्तेऽत्र शतक्रतौ । जयन्ताभिनयं चक्रे, मूलराजस्तदङ्गजः ।। चापलादिव बालेन, रिङ्खता समराङ्गणे । तुरुष्काधिपतेर्येन, विप्रकीर्णा वरूथिनी ॥ यच्छिन्नम्लेच्छकङ्कालस्थलमुच्चैर्विलोकयन् । पितुः प्रालेयशैलस्य, न स्मरत्यर्बुदाचलः ॥ द्रुतमुन्मूलिते तत्र, धात्रा कल्पद्रुमाङ्कुरे । उज्जगामानुजन्माऽस्य, श्री भीम इति भूपतिः ॥ भीमसेनेन भीमोऽयं, भूपतिर्न कदाचन । बकापकारिणा तुल्यो, राजहंसमक्षमः ॥ मन्त्रिभिर्माण्डलीकैश्व, बलवद्भिः शनैः शनैः । बालस्य भूमिपालस्य, तस्य राज्यं व्यभज्यत ॥ वीरधवलवंशवर्णनम् अथ तत्रैव चौलुक्यवंशे शाखान्तरोद्गतः । अर्णोराजः स राजर्षिस्तं ममर्ष न विप्लवम् || धवलस्यं सुतेनापि, तेन कृष्णानुकारिणा । राष्ट्रं निष्कण्टकीकर्तुमारेभे सुभटेन तत् ॥ विस्फुरत्तीत्रहेतीनां दवानामिव सर्वतः । दुष्टानां व्यधितानिष्टं, यत्कृपाणपयोधरः || विचिन्वता रुचि हैमीं, द्विषेदुद्वेगदायिना । व्याप्तं यस्य प्रतापेन, यशसा च जगत्त्रयम् ॥ आ सम्भवादुदूढस्य, निर्व्यूढस्य च सङ्गरे । प्राणैरुद्यापनं चक्रे, निजशौर्यव्रतस्य यः ॥ तत्पुत्रः प्रसरत्कीर्तिपताका चुम्बिताम्बरः । श्रीलावण्यप्रसादोऽस्ति, प्रासादः शौर्यसम्पदः ॥ आकाशमिव चन्द्रेण, पारीन्द्रेणेव काननम् । रम्यं तथाऽनतिक्रम्यं कुलं येन बभूव तत् ॥ जघ्ने येनासिदण्डेन, गाढं, नड्डूलनायकः । निर्घातेनैव तेनामी, कम्पन्तेऽद्यापि भूभृतः || न चौरास्तस्य सौराज्ये, दोरात्म्यं कुर्वते कचित् । स्वयमेष पुनः कीर्ति, हरति प्रतिभूभुजाम् ॥ तेजस्तदिह दान्तारि, दशमस्तक-लङ्कयोः । बभूव भुजयोर्यस्य, राम-लक्ष्मणयोरिव ॥ पुण्डरीकं दधत्येकं, राजहंसाननेकशः । आकृष्टारियशः फेना, प्रतस्थे यस्य वाहिनी ॥ समन्ततोऽपि सामन्तगोष्ठश्वैर्निष्ठुरोक्तिभिः । नाssसीन्नृपतिनागस्य यस्य लीलागतिक्षतिः ॥ पुरो मन्दरवद वीक्ष्य यं निष्कम्पतया स्थितम् । विनिवृत्तमुपेत्यापि धाराधीशपयोधिना ॥ दक्षिणः क्षोणिपालोsपि, घनसैन्योऽल्पविक्रमः । येन तद्विपरीतेन, परित्यजति विग्रहम् ॥ १ श्रोत्रियस्य दत्ते श्रोत्रियत्राकरोति वा० टि० ॥ २ समुदायः वा० टि० ॥ ३ वेषः वा० ४ र्णा विरु प्र० वा० ॥ ५ विस्तं नामर्षत विप्ल मु० ॥ ६ वितन्व वा० ॥ ७ षमुद्दे ८ नडूल वा० । नबुल मु० ॥ ९ स्तत्र सौं मु० ॥ १० स्थे तस्य मु० ॥ की ० २ Jain Education International For Private & Personal Use Only ४८ ४९ ५० ५१ ५२ ५३ m m 5 x 8 m + £ ५४ ५५ ५६ ५७ ५८ ५९ ६० ६१ ६२ ६३ ६४ ६५ ६६ ६७ ६८ ६९ ७० • ७१ ७२ ७३ ७४ ७५ टि० ॥ वां० ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168