Book Title: Kirti Kaumudi tatha Sukrut Sankirtan
Author(s): Someshwar Mahakavi, Arisinh Thakkur Kavi, 
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 26
________________ ।। वस्तुपाल - तेजःपालयोः मन्त्रमुद्रार्पणम् कीर्तिकौमुदीमहाकाव्यम् | भूमिभर्तुरथ कर्तुमिच्छतस्तस्य सत्पुरुषसङ्ग्रहं श्रिये । एकदा हृदयमागताविमौ दीप्तशीतकरणाविवाम्बरम् ॥ तद्गुणान् निपुणथा मनीषिणामग्रणीषिणया विमृश्य सः । आजुहाव च समागतौ च तौ, कार्यसिद्धिरविलम्बिनी सताम् ॥ तत्र तौ ददृशतुः शतक्रतुप्रायमायतभुजं महीभुजम् । सानुजं च सचिवं स दृष्टवानर्थजुष्टमिव धर्ममग्रतः ॥ तावुपायनमुपायपण्डितौ, मण्डितौजसिकपद्धतेः पुरः । उद्गणय्य चरणद्वयं मुदा, तस्य वीरतरणेः प्रणेमतुः ॥ तेन वेनतनयानुकारिणा, कर्तुमात्मकरणाधिकारिणौ । सप्रसादवदनेन सादरं, सोदरौ समुपवेशिताविमौ ॥ तस्य निर्दलितभूरिभूभृतः, स्वर्पतिप्रतिकृतेः कृतासनौ । अश्वराजतनुजौ रराजतुस्तौ सुरासुरगुरूपमौ पुरः ॥ एतयोर्विनयनम्रमस्तकन्यस्त सम्पुटितपाणिपद्मयोः । निर्ममे समदशत्रुदन्तिनामङ्कुशः स कुशलानुयोजनम् ॥ नीलनीरदरवानुवादिना, नादयन्नथ दिशः स्वरेण सः । तौ पुनश्चरितचातकव्रतौ, वक्तुमारभत मारसन्निभः ॥ आकृतिर्गुणसमृद्धिशंसिनी, नम्रता कुलविशुद्धिसूचिका । वाक्क्रमः कथितशास्त्रसङ्क्रमः, संयमश्च युवयोर्वयोऽधिकः ॥ श्लाध्यतां कुलमुपैति पैतृकं, स्यान्मनोरथतरुः फलेग्रहिः । उन्नमन्ति यशसा सह श्रियः, स्वामिनां च पुरुषैर्भवादृशैः ॥ यौवनेऽपि मदनान विक्रिया, नो धनेऽपि विनयव्यतिक्रमः । दुर्जनेऽपि न मनागनार्जवं केन वामिति नवाकृतिः कृता ? ॥ आवयोस्तु पितृ-पुत्रयोर्महानाहितः क्षितिभरः पुरद्रुहा | तद् युवां सचिवपुङ्गवाह, योक्तुमत्र युगपत् समुत्सहे ॥ विद्युदञ्चलचलाचलां श्रियं सन्निवेश्य सचिवेषु साधुषु । सम्प्रहारभरसम्भृतश्रमाः, शेरते सुखममी क्षमाभुजः ॥ येन केन च सुधर्मकर्मणा, भूतलेऽत्र सुलभा विभूतयः । दुर्लभानि सुकृतानि तानि यैर्लभ्यते पुरुषरत्नमुत्तमम् ॥ मत्पितुर्भुजयुगेन संयुगादाहृतां जितयुगश्रिया श्रियम् । अक्षरक्षणंविचक्ष युवां नित्यमेध्यतमिद्धया धिया ॥ Jain Education International १५ For Private & Personal Use Only ५१ ५२ · ५३ ५४ ५५ ५६ ५७ ५८. ५९ ६० ६१ ६२ ६३ ६५ १ उखु प्र० । २ स्वःष्पति वा० । स्वःपति मु० ॥ ३ 'वयं, यो मु० ॥ ४ चलि वा० मु० ॥ ५ केनचन धर्म प्र० ।। ६ व्यवहार प्र० वि० ॥ ६४ www.jainelibrary.org

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168