Book Title: Kirti Kaumudi tatha Sukrut Sankirtan
Author(s): Someshwar Mahakavi, Arisinh Thakkur Kavi,
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
१३०
श्रीमदरिसिंहविरचितं
[ द्वितीय तैरेव त्रुटिते जले पथि तथा प्रेम्णैव वृष्टं यथा,
संपूर्णानि सरोवराणि न पुनः सिक्तोऽपि मार्गोऽनसाम् ॥ ७ स्वस्थानप्रसृतस्ववल्लभजनप्राग्भारसद्यःपरी-रम्भारम्भपुरःप्रसृत्वरमनोवेगावकृष्टैरिव । साकं सङ्घजनैः समुझिततमोभारैस्तदौत्सुक्यतो, गच्छद्भिर्धवलक्ककाभिधपुरोपान्तं प्रपेदे कृती॥ ८
स्मेरकाश्मीरनीरच्छुरितपथतया रागमासाद्य सद्यो,
लीलालोलत्पताकाञ्चलतरलचमत्कारिचञ्चत्कटाक्षा । जातक्षोभा पुरीयं सविपुलपुलकाकीर्णदूर्वाङ्कुरागः,
प्राप्ते श्रीवस्तुपाले सति सचिवशचीवल्लभे वल्लभेऽस्मिन् ।। . ९ इयं सर्वाङ्गीणप्रगुणितविभूषा किल तदा, तदाश्लेषं यावत् क्षणमिव पुरी भासुररसा । । अभूदन्तःशून्या हृदय इव याते पुरजनैः, समं श्रीमन्त्रीशं प्रति सरभसं वीरवले ॥ १०
श्रीवीरधवल-तेजःपालाभिधसचिवमध्यगः सचिवः । त्रिपुरुषरीतिस्थापितहर इव हरति स्म तत्र मनः ।। भास्वन्निःस्वानभेरीमुरजभरजनिध्वानसन्तापभीति
भ्रष्टाहङ्कारदेवीकृतरभसपरीरम्भसंरम्भहृष्टैः । शक्राधैर्देवचक्रैरपि सचिवपतिः स्तूयमानस्तदानीं,
प्रारेभेऽसौ प्रवेश पुरि पुलकिवपुःपौरदृक्पीयमानः ।। अथ पृथुकमतुच्छैरेतदुत्सङ्गयन्त-स्त्रिभुवनमपि शब्दैरब्दसंवावदूकैः । नवभगितिविदग्धा मागधा भागधेय-प्रगुणितगुणभाजं तुष्टुवुर्मन्त्रिराजम् ॥ १३ जय जय नयशालिन्नासमुद्रान्तपृथ्वी वलयमिलितकीर्ते ! मन्त्रिचक्रैकशक्र !। दलितकलिविलास ! प्रस्फुरत्तीर्थयात्रा-कृतकृतयुगनव्यप्रस्तुते ! वस्तुपाल ! ॥ १४ बलिरपि कलिकाले याचकालीकराले, यदि भृशमभविष्यद् दानवो दानशौण्डः । इति भवदवलोकाद् विष्णुयत्नं विनाऽपि, स्वयमयमगमिष्यद् देव ! पातालमूलम् ॥ १५ श्रीविश्रामास्पदमपि मदाद् दासयस्याशु रुष्टः,
स्पष्टं तुष्टो जनयसि जनं श्रीविनिद्रं दरिद्रम् । सामर्थ्य ते स्वयमिति समालोक्य धाता न सौस्थ्य,
नो दौस्थ्यं वाऽधिप ! नृषु लिखत्यन्यथाभावभीत्या ॥ सङ्गः सङ्गतगौरवैः सह सदा कार्यो न कार्यः पुन
नींचैरीदृगनीदृशं जलपतेः पुत्री पुराऽपाठि यत् । __ तस्यां तत्पठनस्य निःशठतया पाठं ददत्यां दधे,
मुद्रा हाटकपट्टिकेव सलिपिः श्रीवस्तुपाल ! त्वया ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168