Book Title: Kirti Kaumudi tatha Sukrut Sankirtan
Author(s): Someshwar Mahakavi, Arisinh Thakkur Kavi, 
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 143
________________ १३२ श्रीमदरिसिंहरिरचितं. [ द्वितीय २९ क्रमकमलयुगेऽस्मिन् सेवका देव ! कामं, तव सचिव ! नमन्तः प्रीतिमन्तः समन्तात् । नखरुचिजलवीचीधौतभालस्थदौस्थ्या -क्षरततय इवामी भूतिभारं भजन्ते || इति वर्ण्यमानगुणगौरवो रवो-दुरबन्दिवृन्दवरभारतीभरैः । जिनदेवतालयपुरस्सरः शनैः प्रविवेश पत्तनमसौ महामतिः ॥ अथ तं विलोकयितुमाकुलं कुलं सुदृशां गवाक्षपदवीषु कौतुकात् । अचलत् तदार्द्धकृतमुक्ततत्क्षण क्रियमाणकर्मततिं दर्शितादरम् ॥ विरचय काऽपि मणिकुण्डलं श्रुतौ द्रुतमेकमेव चलिता कुतूहलात् । जगदुत्तमाननकुशेशयस्मय - स्वयमागतद्युमणिमण्डला बभौ ॥ औत्सुक्यभावकृतभूषणवैपरीत्या, कर्णावलम्बितमणिश्रितकङ्कणाभ्याम् । काचिच्चकार जितकुञ्जरकुम्भशोभे, पीन्नोन्नतस्तनतटे मुकुटावबन्धम् ॥ औत्सुक्यतः काचन चित्रकार्थं करे गृहीतां मृगनाभिमेव । स्निग्धाञ्जनभ्रान्तिवशात् किरन्ती, नेत्रद्वये तत्र दधौ मृगत्वम् ॥ वैकक्षमाल्यमिलितः शुशुभे परस्याः, पक्षान्तरप्रसृमरः कबरीकलापः । सर्वायसं कुसुमकार्मुकसन्निधाने, पृथ्वीवरानिव निहन्तुमधादनङ्गः ॥ तामेकं कर एव काचित्, तदा वहन्ती चपलं चचाल । त्रैलोक्य जैत्रस्मरचक्रवर्त्ति-पताकिनीवाग्रविलासिचक्रा ॥ आधात् पदे सपदि काचन काञ्चनस्य, हिञ्जीरमङ्कुरितकौतुकमेकमेव । स्त्रीषु स्वकीयविजयध्वजिनीषु विश्वे, दत्तं तु वीरकटकं मकरध्वजेन || कृत्वैकमेव निजमञ्जनमञ्जु नेत्र - माबिभ्रती परमनञ्जनमेव काचित् । आभूषितं नु सहजं नु विशेषहृद्यं, जालागता किल विचारयतीव लौकैः ॥ काचित् तदा मन्त्रिवरं निरीक्ष्य, कञ्चिद् विभावं हृदये वहन्ती । दष्टारा पाणिपुटैरुरःस्थं, पिण्डीकृतं पीडयति स्म हारम् ॥ काचिद् भुजाभ्यां बहिरङ्गभावा-च्छून्यं यदाऽऽलिङ्गनमाततान । अन्तर्गते मन्त्रिवरेऽन्तरङ्ग - भावादशून्यं हृदये तदाऽऽसीत् ॥ मूर्तीस्तीर्थपतेरथाऽऽलयपदेऽध्यारोप्य लोकं पुनः, सम्मानोचितचातुरीपरिचितः सर्वं विस क्षणात् । साक्षादक्षतपात्रपूरितकरप्रेयःप्रसिद्धाङ्गना रङ्गन्मङ्गलवर्धितः स गमयामास स्मितो वासरम् ॥ S Jain Education International For Private & Personal Use Only .३० ३१ ३२ ३३ ३४ ३५ ३६ • ३७ ३८ इत्थं गौरव गौरपौररमगीरङ्गत्कटाक्षच्छटा-गुच्छच्छायमयूरपिच्छघटितच्छत्रच्छविच्छादितः । मन्दं मन्दममन्दबन्दिवचनैरानन्द्यमानो ययौ, धन्यः सौधमसौ धरातलसुधाधाराधरो धीरधीः ॥ ४१ ३९ ४० ४२ www.jainelibrary.org

Loading...

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168