Book Title: Kirti Kaumudi tatha Sukrut Sankirtan
Author(s): Someshwar Mahakavi, Arisinh Thakkur Kavi,
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
द्वितीयं
। श्रीमदरिसिंहविरचितं अथ काननान्तरविहारभव-नवखेदभेदरभसेन ययुः। . .. । दयितैः समं मृगदृशोऽम्बुनिधि-प्रतिहस्तकं सवनहेतु सरः ॥
तरुणीसमागमवशेन जवात् , किल पल्वलोऽजनि मुदा द्विगुणः । - विलसत्तरङ्गकरकोटिरयं, तिरयन् निजाः कमलिनीदयिताः ॥
अतिदूरतः सरभसं रसभाक्, समुपेत्य लोलविषयव्यसमः । कुचयोविलुठ्य सुदृशां विलयं, प्रययौ तरङ्गनिकरः सपदि ॥ दयितेषु तोयजवनेषु गते, रभसेन यत्र कलहंसकुले । सरसी रराज सुदृशां वदनैः, कुचमण्डलैरपि च फेनभरैः ॥ हरिणीदृशां कलितरागभरं, कुचसङ्गमेन परिवृद्धरसम् । ब्रुडदम्बुजन्मकपटेन सरः, परिमीलयत्यतिसुखीव दृशः ॥ अवलोक्य कोऽपि रभसेन जनं, विपरीतलोचनमुदाररसः । हरिणीदृशा श्रुतिसरोजकृता-ननचुम्बनव्यतिकरो हसितः ॥ अभिसेचनेन नयनप्रसृति-प्रसरत्कटाक्षरसतोऽनुपति । अपरा सखी प्रति करप्रसृति-च्युतनीरशून्यजलकेलिरभूत् ॥ द्रुतमुद्धृतेऽम्बुजमिति प्रकटे, बुडितस्य वारिणि करे कमितुः । विदितस्य वीक्ष्य मुखमस्य नवा, रमगी न किं किमकृत त्रपया ? ॥ ईदृक्केलिरसप्रसन्नमनसः स्वर्गीकसो भास्करे,
यातेऽप्यम्बुनिधिं सरःकुमुदिनीबोधप्रबुद्धक्षपाः । श्रीमन्त्रीश्वरवस्तुपालयशसा शुभ्रे सदैवाम्बर
क्रोडे वैभवपिष्टविष्टपतमःस्तोमेन जग्मुर्दिवम् ।।
किन
आस्ते यावदखर्वपर्वतघटा गुर्वीयमुर्वी भृशं,
तावन्नन्दतु वस्तुपाल ! जगतीपुण्यैरगण्यैर्भवान् । येनैतां भुजगाधिपस्तव भुजे विन्यस्य नागाङ्गना
गोष्ठीगीतभवद्यशःश्रुतिरसैराचान्तचित्तोऽभवत् ॥ आजन्मापि कृशाकृतिं द्विजपति स्वे मूर्धनि स्वर्धनी
धौते धारयते जगत्पतिरसावग्र्यो गुणग्राहिणाम् । सद्यः सङ्गतमप्यमुं वसुभरैः पुण्णाति पूषा शिरो
भूषा दानवतामुभावपि शुभावेतौ वसन्ते गुणौ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org |
Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168