SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ द्वितीयं । श्रीमदरिसिंहविरचितं अथ काननान्तरविहारभव-नवखेदभेदरभसेन ययुः। . .. । दयितैः समं मृगदृशोऽम्बुनिधि-प्रतिहस्तकं सवनहेतु सरः ॥ तरुणीसमागमवशेन जवात् , किल पल्वलोऽजनि मुदा द्विगुणः । - विलसत्तरङ्गकरकोटिरयं, तिरयन् निजाः कमलिनीदयिताः ॥ अतिदूरतः सरभसं रसभाक्, समुपेत्य लोलविषयव्यसमः । कुचयोविलुठ्य सुदृशां विलयं, प्रययौ तरङ्गनिकरः सपदि ॥ दयितेषु तोयजवनेषु गते, रभसेन यत्र कलहंसकुले । सरसी रराज सुदृशां वदनैः, कुचमण्डलैरपि च फेनभरैः ॥ हरिणीदृशां कलितरागभरं, कुचसङ्गमेन परिवृद्धरसम् । ब्रुडदम्बुजन्मकपटेन सरः, परिमीलयत्यतिसुखीव दृशः ॥ अवलोक्य कोऽपि रभसेन जनं, विपरीतलोचनमुदाररसः । हरिणीदृशा श्रुतिसरोजकृता-ननचुम्बनव्यतिकरो हसितः ॥ अभिसेचनेन नयनप्रसृति-प्रसरत्कटाक्षरसतोऽनुपति । अपरा सखी प्रति करप्रसृति-च्युतनीरशून्यजलकेलिरभूत् ॥ द्रुतमुद्धृतेऽम्बुजमिति प्रकटे, बुडितस्य वारिणि करे कमितुः । विदितस्य वीक्ष्य मुखमस्य नवा, रमगी न किं किमकृत त्रपया ? ॥ ईदृक्केलिरसप्रसन्नमनसः स्वर्गीकसो भास्करे, यातेऽप्यम्बुनिधिं सरःकुमुदिनीबोधप्रबुद्धक्षपाः । श्रीमन्त्रीश्वरवस्तुपालयशसा शुभ्रे सदैवाम्बर क्रोडे वैभवपिष्टविष्टपतमःस्तोमेन जग्मुर्दिवम् ।। किन आस्ते यावदखर्वपर्वतघटा गुर्वीयमुर्वी भृशं, तावन्नन्दतु वस्तुपाल ! जगतीपुण्यैरगण्यैर्भवान् । येनैतां भुजगाधिपस्तव भुजे विन्यस्य नागाङ्गना गोष्ठीगीतभवद्यशःश्रुतिरसैराचान्तचित्तोऽभवत् ॥ आजन्मापि कृशाकृतिं द्विजपति स्वे मूर्धनि स्वर्धनी धौते धारयते जगत्पतिरसावग्र्यो गुणग्राहिणाम् । सद्यः सङ्गतमप्यमुं वसुभरैः पुण्णाति पूषा शिरो भूषा दानवतामुभावपि शुभावेतौ वसन्ते गुणौ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org |
SR No.002505
Book TitleKirti Kaumudi tatha Sukrut Sankirtan
Original Sutra AuthorSomeshwar Mahakavi, Arisinh Thakkur Kavi
Author
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages168
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy