________________
परिशिष्टम् ] ' ', सुकृतसंकीर्तनमहाकाव्यम् ।
श्रीवस्तुपौल ! रणभाजि भवत्कृपाणे, धाराधरेऽपि परवारणविभ्रमेऽस्मिन् ।
उत्पन्न कोपतरलं सहसा जगाम, खग्रामसिंह इति स स्वयमेव भङ्गम् ॥ ३ . . वस्तुपालसुकृतामृतप्रपा, काव्यमूर्तिररिसिंहसूत्रिता ।
कण्ठदप्तरसपायिनः शिरः, कम्पयन्ति किल यत्र कोविदाः ।। प्रतिसर्ग प्रबन्वेऽस्मिन्नरिसिंहविनिर्मिते । इमान्यकृत चत्वारि, काव्यान्यमरपण्डितः॥ ५
॥ इति सुकृतसङ्कीर्तननाम्नि महाकाव्ये षड्ऋतुवर्णनो
... नाम नवमः सर्गः ॥ ९॥
तदनु वदनकान्तिन्यत्कृतेन्दुः कृती-दुः, समुदितमदपात्रं पूर्णयात्राभिलाषः । इह विहितनिवासः काशसङ्काशकीर्तिः, क्रशितविततकर्मा निर्ममे सङ्घभोज्यम् ॥ १ मलयजमयमम्भः पादयोरुत्तमाङ्गे, घनमथ घनसारं चीवरं चारु चाङ्गे । यश इव निजमीग्रूपमारोप्य तेन, स्मयरसमुपनीताः साधवोऽगाधबोधाः ॥ २ सन्नं यन्न तदापि रत्नकनकस्तोमैरतुच्छाशये,
तस्मिन् यच्छति वाञ्छताधिकतरं दीनेषु दूरादपि । मन्येऽपूरि ततो गभीरिमजितो रत्नानि रत्नाकर
स्तस्य स्थैर्यनिराकृतश्च करदो हेमानि हेमाचलः ।। किं सूते कर एव हेमनिकरं श्रीनेमिभक्तिक्रिया
तुष्टै रैवतकाधिदैवतकुलैः किं वा निधिः पूर्यते ? । इत्थं याचकसञ्चयस्य किमपि स्वस्यापि वाञ्छाधिकं.
तस्मिन् यच्छति खेचरेष्वपि चमत्कारश्चकार स्थितिम् ॥ तदानीं दीनौघे मुहुरपि गृहीत्वा बहुतरं, स्वयं निर्विण्णेऽस्मिन् दददयमनिर्विण्णहृदयः । अहो ! किश्चित् कोऽपि कचिदपि न याचेत वचनं, चिरादुच्चार्येदं धवलकपुरे गन्तुमुदितः॥ ५ .
दुष्कर्मादिपविः पवित्रमहिमा नास्यां कदाचिन्महा
मोहध्वान्तरविः प्रविश्यति भृशं सङ्घो महोत्साहवान् । इत्थं पापलिपि विलुप्य करणे भालोपमे वामन
स्थल्याः पुण्यदिनं चकार सुकृती कुर्वन् प्रवेशोत्सवम् ।। कर्पूरागुरुधूपधूमपटलैरुत्क्षिप्यमाणैः प्रति
' . ग्रामं तीर्थकृतामनेन कृतिना ये जज्ञिरे वारिदाः । सु. १७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org