SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ परिशिएम् , सुकृतसंकीर्तनमहाकाव्यम् । पुलककम्पितसूत्कृतिभिः परि-प्वजनकर्म दिशन् हरिणीदृशाम् । 'हिसमयः पवनो ननु कामिना-ममितकामितकारणतां ययौ ॥ पथिककाननलग्नमनोभव-ज्वलनसम्भवधूमभरोपमम् । नवलवङ्गरजः पवनाहतं, जगति रङ्गति रङ्गितषट्पदम् ।। दिनमयं नमयन् सहसा कृत-स्मरजनी रजनीः परिवर्धयन् । विरहितारहितासु सुखोर्मिका-रसमयः समयः शिशिरो भृशम् ॥ सततकुसुमितानृतूनशेषा-निति समकालमिहावलोक्य मन्त्री । अधुनुल विदितप्रभुप्रभावा-तिशयविचारचमत्कृतः किरीटम् ॥ शैलेऽस्मिन् पुरुहूतपौरमिथुनैर्मन्त्रीशनिर्मापित श्रीमन्नेमिजिनेश्वरोत्सवभवत्कौतूहलाकारितैः । रन्तुं नित्यषडर्तुभूतिविभवद्वल्लीभवल्लीलया, सानन्दैरतिमन्दनन्दनवनीमुक्तस्पृहैः सस्पृहे ॥ कुसुमावचायमनसां श्रवणे, सुरयोषितामथ सरोजजुषि । कुसुमादुपेत्य निभृतध्वनयो, दधतीव भेदमलिनो मलिनाः ।। वयमेव शस्त्रपदवीं गमिता, मदनेन सम्प्रति किमेभिरिति । अवचिन्वते स्म कुसुमानि तदा, रमणैः समं सुरकुरङ्गदृशः ।। नववृक्षमूर्ध्नि यदकारि तप-स्तपनातपेन धृतरागभरैः । तरुणीकरग्रहणपुण्यफलं, नवपल्लवैरिदमलाभि ततः ॥ नवपल्लवा निजविभूतिहृतो, वनवर्तिनः स्फुटमशोकजुषः । परिकम्पिनो हठवशादरुणै-स्तरुणीकरैर्बिभिदिरे रभसात् ॥ कुसुमार्पणेषु रमणः सुदृशा, प्रथितेऽन्यनाम्नि लघुतां गमितः । हृदयात् तदात्वतरलेन सह, श्वसितेन तूलवदकर्षि बहिः ॥ ददता प्रसूनमपराभिधया, दयितेन वज्रनिभयाऽभिहते । हृदि मानिनी ननु विधाय दृशं, सजलामवागतनुत श्वसितम् ॥ उदितं प्रियेण निभृतं चतुरा, परगोत्रमश्रुतवती च रहः । तदुरस्थपुष्परजसि श्वसितं, व्यधिताद्यमश्रु च तदुड्डयने ।। सृजता स्रजं शिरसि पद्मदृशो, मृदु चुम्बता प्रियतमेन परा । अपि शेमुषीश्लथतया न रसाद् , ददृशे परा न तयाऽपि रुषा ॥ सकलस्वकीयकुसुमस्वहृति-प्रतिपन्थिनीः प्रति भृशं सुदृशः । • अमुचन् शीलिमुखशतानि लताः, समभूषयनिहह ! तान्यपि ताः॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002505
Book TitleKirti Kaumudi tatha Sukrut Sankirtan
Original Sutra AuthorSomeshwar Mahakavi, Arisinh Thakkur Kavi
Author
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages168
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy