Book Title: Kirti Kaumudi tatha Sukrut Sankirtan
Author(s): Someshwar Mahakavi, Arisinh Thakkur Kavi,
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
सुकृतसंकीर्त्तनमहाकाव्यम् ।
शस्त्रविस्तृतिपरः परं परो, रक्षति क्षितिमिमामरातितः ।
वस्तुपलसचिवस्तु पालय - त्येष देव - गुरुवन्मनीषया ॥
संग्राम सिंहकुयशोभरभृङ्गभङ्गि - भास्वद्यशः कुसुम सौरभसम्भृताशः ।
वाग्वैभवेन किल कोकिलकोमलेन, शश्वद् वसन्त इव भासि वसन्तपाल ! ॥ ३ श्रीवस्तुपालस्य यशस्तरङ्ग - पूरैः परीतं परितोऽरिसिंहः ।
व्यधत्त दुग्धाब्धिमिव प्रबन्ध-ममुं समुद्भूतर सप्रशस्यम् ॥ प्रतिसर्गं प्रबन्धेऽस्मिन्नरिसिंहविनिर्मिते । इमान्यकृत चत्वारि, काव्यान्यमरपण्डितः ॥
५
परिशिष्टम् ]
॥ इति सुकृतसङ्कीर्त्तननाम्नि महाकाव्ये मन्त्रिप्रकाशो नाम तृतीयः सर्गः ॥ ३ ॥
Jain Education International
((()))
वस्तुपालसचिवेन्द्रशेमुषी - सम्मुखः पुरुषपौरुषोदधिः । मेदिनीमजयदब्धिमेखला - मेष वीरधवलोsथ दुर्द्धरः ॥ तन्महामतिरकम्पसङ्कटे, कण्टकालिरहिते हितः सताम् । न्यायवर्त्मनि समे समन्ततः, सम्मदेन समचीचरत् प्रजाः ॥ कस्यचिद्धरणिमण्डलच्युते, कुण्डलेऽपि मणिराजिराजिते । शङ्कयेव भृशमाशुशुक्षणेः, कोऽपि न क्षिपति पाणिपङ्कजम् ॥ ऋद्धिवृद्धिविशदेषु सर्वदा, देशवासिषु जनेषु मानिषु । दीयमानमपि नाददीत यत्, कोऽपि तस्करकथा ततः कुतः ? | सर्वथाऽप्यसति याचके कचित्, कोऽपि किञ्चिदपि न प्रयच्छति । कौतुकात् कविभिरेव वर्ण्यते, दानवानिति महाधनो जनः ॥ एतदाननविलासि पालयत्याशु वीरधवलादपि द्विषः । आप्तगौरवमिति च्युतं क्षितेनैव कश्चिदुदपाटयत् तृणम् ॥ नित्यचैत्यकुतुकावलोकन- व्यग्रलोकमणिभूषणांशुभिः । जर्जरे रजनितामसेऽफलत्, पांशुलासु न मनोरथद्रुमः ॥ इत्यवेक्ष्य मुदितं पदे पदे, लोकमुल्वणविवेकमेकदा | वस्तुपालसचिवं व्यजिज्ञपद्, व्यक्तभक्तिभरभासुरोऽनुजः ॥ बुद्धिरेव तव देव ! दासता मानिनाय विषमानपि द्विषः । मण्डनाय नृपमण्डलश्रिया - मेव वीरधवलस्य वाहिनी ॥
For Private & Personal Use Only
२
४
१
४
५
७
१०७
www.jainelibrary.org
Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168