Book Title: Kirti Kaumudi tatha Sukrut Sankirtan
Author(s): Someshwar Mahakavi, Arisinh Thakkur Kavi,
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
१२४
श्रीमदरिसिंहविरचितं
स्वहृदः प्रमोदविशदस्य रसात् परमाणुभिः पुर इव प्रसृतैः । सचिवेन सारघनसाररसै- नवमङ्गमण्डनमकारि विभोः ||
कुसुमायुधस्य कुसुमानि मनागपि सम्मुखानि नहि यत्र ययुः । इह तानि तीर्थकृति सङ्घटयन् स बभौ कृती मदनतोऽप्यधिकः ॥ यमुनौघसङ्गमधिया सचिव - प्रथितेऽथ धूपमयधूमभरे । प्रमदेन तत्क्षणमकारि नभः- सरिदम्बुनि मुनिभिः सवनम् ॥ अथ तामसं कवलितं चलिता - ञ्जनकैतवेन भृशमुद्गिरता | नवदीपिकापरिकरेण चिरं, निरराज यज्जिनमयं सचिवः ॥ स्फुटमष्टकर्ममथनोऽयमिति, प्रथयन्निहाष्टदिवसानि महम् । स्वयमष्टमूर्तिमुकुटेन्दुसमं, सचिवोऽष्टसु न्यधित दिक्षु यशः ॥ सचिवस्य दास इव शब्दजितो, जलवाह एष गिरिमूर्ध्नि वहन् । नववर्ष सङ्घजनतार्त्तिभयात्, ` त्रुटितान्यपूरि सलिलानि पुनः ॥ देयाः स्वामिन् ! पुनर्मे सुकृतपुरपुरोढौकनानीति जल्प
नानन्दस्पन्दसारैरिव घटितमना नेमिनाथं प्रणम्य । नामं नामं निकामं विधिवदविधुरं मन्त्रिमान्योऽयमम्बाशाम्ब-प्रद्युम्नमुख्यानपि पुलकिवपुः पर्वतादुत्ततार ॥
किश्ञ्च
स्वस्ति श्रीदेवलोकादमरपरिवृढः क्ष्मातले श्रीविशालं,
मन्त्रीशं वस्तुपालं कुशलयति यथा जीव ! कल्पान्तकोटीः । लीनास्त्वत्कीर्तिगाने यदसुरविसरा न स्मरन्त्येव वैरं,
स्वैरं वाऽमी 'स्मरन्तु त्वदरिभिरभवन् दुर्जया में ध्वजिन्यः ॥ चञ्चत्काञ्चनकूटकोटिघटितक्रीडाचलैर्याचक
Jain Education International
३८
॥ इति सुकृतसंकीर्त्तननाम्नि महाकाव्ये श्रीनेमिदर्शनो नामाष्टमः सर्गः ॥ ८ ॥
For Private & Personal Use Only
[.
३९
४०
४१
४२
स्तोमैः प्रस्तुतवस्तुपालसचिवप्राप्तार्थसार्थस्मितैः । अत्येषां किमु नाम धामनि क्रियद् दास्यन्त्यमी याचिताः ?, मत्वैवं न ययाचिरे बत ! परे कल्पद्रुकल्पा जनाः ॥ उच्चरणचारचारुस्तव खड्गः किमपि सुरभसारम्भः । श्रीवस्तुपाल ! जगति, व्यजयत सङ्ग्रामसिंहममुम् ॥ लावण्यसिंहतनयाननसोमरश्मि- स्तोमं खलास्यकमला लिकलापहारी । श्रीवस्तुपालसचिवाधिपकीर्तिदुग्ध-सिन्धुं तरङ्गयति नित्यमयं प्रबन्धः ||
४
प्रतिसर्गं प्रबन्धेऽस्मिन्नरिसिंह विनिर्मिते । इमान्यकृत चत्वारि, काव्यान्यमरमण्डितः ॥ ५
४३
४४
·
www.jainelibrary.org
Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168