SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ १२४ श्रीमदरिसिंहविरचितं स्वहृदः प्रमोदविशदस्य रसात् परमाणुभिः पुर इव प्रसृतैः । सचिवेन सारघनसाररसै- नवमङ्गमण्डनमकारि विभोः || कुसुमायुधस्य कुसुमानि मनागपि सम्मुखानि नहि यत्र ययुः । इह तानि तीर्थकृति सङ्घटयन् स बभौ कृती मदनतोऽप्यधिकः ॥ यमुनौघसङ्गमधिया सचिव - प्रथितेऽथ धूपमयधूमभरे । प्रमदेन तत्क्षणमकारि नभः- सरिदम्बुनि मुनिभिः सवनम् ॥ अथ तामसं कवलितं चलिता - ञ्जनकैतवेन भृशमुद्गिरता | नवदीपिकापरिकरेण चिरं, निरराज यज्जिनमयं सचिवः ॥ स्फुटमष्टकर्ममथनोऽयमिति, प्रथयन्निहाष्टदिवसानि महम् । स्वयमष्टमूर्तिमुकुटेन्दुसमं, सचिवोऽष्टसु न्यधित दिक्षु यशः ॥ सचिवस्य दास इव शब्दजितो, जलवाह एष गिरिमूर्ध्नि वहन् । नववर्ष सङ्घजनतार्त्तिभयात्, ` त्रुटितान्यपूरि सलिलानि पुनः ॥ देयाः स्वामिन् ! पुनर्मे सुकृतपुरपुरोढौकनानीति जल्प नानन्दस्पन्दसारैरिव घटितमना नेमिनाथं प्रणम्य । नामं नामं निकामं विधिवदविधुरं मन्त्रिमान्योऽयमम्बाशाम्ब-प्रद्युम्नमुख्यानपि पुलकिवपुः पर्वतादुत्ततार ॥ किश्ञ्च स्वस्ति श्रीदेवलोकादमरपरिवृढः क्ष्मातले श्रीविशालं, मन्त्रीशं वस्तुपालं कुशलयति यथा जीव ! कल्पान्तकोटीः । लीनास्त्वत्कीर्तिगाने यदसुरविसरा न स्मरन्त्येव वैरं, स्वैरं वाऽमी 'स्मरन्तु त्वदरिभिरभवन् दुर्जया में ध्वजिन्यः ॥ चञ्चत्काञ्चनकूटकोटिघटितक्रीडाचलैर्याचक Jain Education International ३८ ॥ इति सुकृतसंकीर्त्तननाम्नि महाकाव्ये श्रीनेमिदर्शनो नामाष्टमः सर्गः ॥ ८ ॥ For Private & Personal Use Only [. ३९ ४० ४१ ४२ स्तोमैः प्रस्तुतवस्तुपालसचिवप्राप्तार्थसार्थस्मितैः । अत्येषां किमु नाम धामनि क्रियद् दास्यन्त्यमी याचिताः ?, मत्वैवं न ययाचिरे बत ! परे कल्पद्रुकल्पा जनाः ॥ उच्चरणचारचारुस्तव खड्गः किमपि सुरभसारम्भः । श्रीवस्तुपाल ! जगति, व्यजयत सङ्ग्रामसिंहममुम् ॥ लावण्यसिंहतनयाननसोमरश्मि- स्तोमं खलास्यकमला लिकलापहारी । श्रीवस्तुपालसचिवाधिपकीर्तिदुग्ध-सिन्धुं तरङ्गयति नित्यमयं प्रबन्धः || ४ प्रतिसर्गं प्रबन्धेऽस्मिन्नरिसिंह विनिर्मिते । इमान्यकृत चत्वारि, काव्यान्यमरमण्डितः ॥ ५ ४३ ४४ · www.jainelibrary.org
SR No.002505
Book TitleKirti Kaumudi tatha Sukrut Sankirtan
Original Sutra AuthorSomeshwar Mahakavi, Arisinh Thakkur Kavi
Author
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages168
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy