SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् ] सुकृतसंकीर्तनमहाकाव्यम् । नयनाग्रवमनि परिस्फुरती, दुरितान्धकारपटली विकटाम् । दलयन्ति मे त्रिजगदीश ! कदा भवदीयपादनखदीपशिखाः ? ॥ भुवनैकनाथ ! भवदीयवपु-र्विपुलप्रभापयसि मग्नमपि । द्वितयं कदा नयनयोरिह मां, हिमहारतारगुण ! तारयति ।। तदपीयत श्रुतिपुटेन यशः, सततं विषण्णदिविषन्नदि ते । भवदङ्गदीप्तिममुना यमुना-जयिनी धयामि नयनेन कदा ? ॥ नलिनादिपुष्पनिवहेन सुरै-र्यदपूजि पादयुगमीश ! तव ।। जिन ! तेन पङ्कजनिभेन कदा, जनयामि पूजितमिवाऽऽमशिरः ॥ इति गद्गदाश्रुपुलकाकुलितः, कलयन् मनोरथमनन्यमनाः । सचिवः शिवातनयमात्तनयः, क्षणमेकमैक्षत पुरोगमिव ॥ अथ कल्पिताखिलविभातविधि-गिरिमारुरोह सह सङ्घजनैः । सचिवो जिनक्रमनखेषु पुरो-गमितेन कृष्ट इव मझु हृदा ॥ तदनु प्रमोदरभसेन रजः-प्लुतपाद एव विननाम जिनम् । अपि चैष नेत्रगमिताक्षगण-प्रसरक्षणं निभृतमीक्षितवान् । रचिताङ्गशौचविधिरिन्द्रगणैः, सहितो जिनस्नपनहेतुरथ । जिनभक्तिरागमिव मूर्तमसो, कलशेषु कुङ्कुमजलं न्यदधात् ।। अथ केऽपि भक्तिभरभासुरिताः, स्फुरिता जिनस्य पुरतः परितः । स्वयमुत्सवं विदधिरे मधुर-ध्वनिगीतिरीतिमयवाद्यलयम् ॥ वदनाप्रभागगतपाणियुग-स्थितभेरिदण्डमिषदन्तकरः । शुशुभे करीन्द्र इव मन्द्ररवः, किल कोऽपि पापतरुपातपटुः ।। अपरः पयोदरववादभव-न्निनदं मृदङ्गमपि वादितवान् । ननृते दरदुरितभोगिशतैः, कृतिनां मनोमयमयूरकुलैः ॥ अपरस्य वंशमपि वादयतो, मधुरस्वरैः प्रमदिनां कृतिनाम् । यदमीलि पक्ष्मपुटकेन रसात् , तदवेशि कर्ण इव नेत्रमृगैः ॥ अपरः पिबन्नपि शिवातनुभू-वदनेन्दुदीधितिसुधां स्थिरदृक् । भृशमुज्जगार जनयन् जनता-हृदि सम्मदं ललितगीतमिषात् ॥ चटुला नटी सरसनृत्तवशा-दिह रत्नभूषणशुभा शुशुभे । कुलदेवतेव तडितां तरला, जलदद्युतेर्जिनपतेः पुरतः ॥ इति सम्मदेन जिनमस्नपयद् , घुसृणाम्बुभिः कृतिपतिः स तथा । • कपिशो यथाऽयमपि रैवतकः किल देवताद्रिसदृशो ददृशे ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002505
Book TitleKirti Kaumudi tatha Sukrut Sankirtan
Original Sutra AuthorSomeshwar Mahakavi, Arisinh Thakkur Kavi
Author
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages168
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy