SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ १२२ [द्वितीय श्रीमदरिसिंहविरचितं अकृशैः कृशैश्च नवशुक्तिफल-प्रकरैर्विभान्तमभितः शुचिभिः । शिशुभिर्निजैः शशिभिरङ्कधृतै-रिव भाविभूरितरकल्पकृते ।। घुमणिः क्षपामणिरपि प्रभया, मयि मुच्यते जयति कोऽयमिह । इति विस्मयादपरवारिधिना, सचिवोऽप्यनन्यसदृशो ददृशे ।। अथ कम्बुचिह्नशुचिरम्बुनिधिः, स्फुरितेन्द्रनीलमणिनीलरुचिः । रभसादसस्मरदमात्यपते-नमनाय नेमिजिनमात्मगुणैः॥ अथ सञ्चलनचलरैवतकं, पुरतः स्फुरत्पवनलोललतम् । सचिवो ददर्श शुचिसङ्घसमा-गमनप्रवृत्तमदनृत्यमिव ॥ . वनवल्लयो गुरुतयाऽस्य गिरेः, शिखरान्तरालललितोडुगणाः । विबभुर्भृशं सविधनेमिविधु-प्रभवप्रभावसततप्रसवाः ॥ गिरिरेष सिन्धुतनिकानिकरै-र्वितनोति धर्मनृपतिस्थुलताम् । कलशश्रिय शिरसि यस्य दधौ, गगनापगाध्वजिनि नेमिजिनः ।। न तथा व्यराजदुडुशुक्तिफलै-स्तरणीन्दुकुण्डलयुगेन न च । शुशुभे समुद्रविजयाङ्गभव-प्रभुमौलिनीलमणिनैव यथा ॥ अवलोक्य धूपमयधूमततिं, जिनधाममूर्धनि पयोदधिया । इह चातकैः स्मितमुखैर्मुमुदे, वियदापगालहरिसीकरतः ॥ कटकस्थकाननकलापिकुलं, घनकाल एव मुदमुबहते । इह नेमिमन्दिरमृदङ्गरवै-रनिशं शिरोवनविलासि पुनः ॥ इति वर्णयन्नयमनूननयः, सचिवः शिवश्रिय इवाऽऽश्रयभूः । कृतसन्निवासरचनः सुचिरं, गिरिदर्शनोत्सवविधिं व्यधित ॥ कृतकृत्य एव समये शयितः, क्षणदाक्षयक्षणविबोधशुचिः । प्रणिपत्य नेमिनमयं मनसा, सचिवो मनोरथमिति व्यदधात् ॥ जनये जिन ! स्मितमनाः स्नपनं, भवदीयदर्शनसुधाजलधौ । भवदावपावकभुवोऽभिभवन् , विपदः कदाऽहमपदाहवपुः ? ॥ भुवनाधिपातिभवदाहभिदे, भवदङ्घ्रियुग्ममहमाप्तमहः । निदधामि मूर्ध्नि नलिनाभमथ, प्रलयैकदारुण ! कदाऽरुणितम् ? ॥ भवकाननान्तरविहारभवां, भवदाननेन्दुरुचिपानरुचिः । विषमां तृषं परिहरामि चिरा-चपलश्चकोर इव देव कदा?॥ विकटं नयामि शिखिवच्छिरसि, स्वकरौ कलापिकलया कलयन् । अवलोक्य वारिदमिवाशु कदा, शुकदारदीप्तिभवदीयवपुः ? ॥ २२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002505
Book TitleKirti Kaumudi tatha Sukrut Sankirtan
Original Sutra AuthorSomeshwar Mahakavi, Arisinh Thakkur Kavi
Author
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages168
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy