________________
१२१
५
परिशियम् ] . . सुकृतसंकीर्तनमहाकाव्यम् ।
एकेनैव विभूषणेन भवता श्रीवस्तुपाल ! क्षिति
• स्तं निर्जित्य मुदा तवाऽऽशिषमदादेवं मैदायुभव ॥ कल्पान्तोद्भ्रान्तभास्वत्करनिकरनिभो विश्वमन्तः समन्तात् ,
सन्तापस्त्वत्प्रतापञ्चलदनलभवः केन शक्येत सोढुम् ? । मन्त्रिन् श्रीवस्तुपाल ! त्रिजगति यदि ते कीर्त्तिलेखेव न स्या
दन्तःपीयूषपेया बहिरपि च मुहुश्चन्दनोद्वर्त्तनानि । भासि दौस्थ्यतरुखण्डखण्डनै-वस्तुपाल ! भुवि दानिकुञ्जरः । चित्रमत्र किमु शङ्खमर्दन, यत् त्वया क्रमणलीलया कृतम् ॥ काव्यमेतदरिसिंहनिर्मितं, सर्वतोमुखतयैव रङ्गभूः ।
वस्तुपालसचिवेन्द्रकीर्तिभि-नर्तकीभिरिव यत्र नृत्यते ॥ प्रतिसर्ग प्रबन्धेऽस्मिन्नरिसिंहविनिर्मिते । इमान्यकृत चत्वारि, काव्यान्यमरपण्डितः॥ ॥ इति सुकृतसङ्कीर्तननाम्नि महाकाव्ये शत्रुञ्जयदर्शनो नाम सप्तमः सर्गः ॥७॥
→ सचिवः समं सपदि सङ्घजनै-रथ देवपत्तनमगान्नगरम् । प्रणनाम कामजयिनं नयन-प्रियमिन्दुलाञ्छनमिहोग्रमहाः ॥ विधुमौलिमौलिविधुधामभरै-रिह मे भविष्यति सदाऽभ्युदयः । इति पाथसाममुममुत्र पति, कृतवासमैक्षत स मन्त्रिपतिः ।। इह सोमनाथमुकुटोल्लसितैः, सरिदम्बुभिर्बिधुविभाभिरपि । सततप्रवृद्धविहरल्लहरी-निवहध्वनिध्वनितदिग्वलयम् ।। सततान्तरालशयविष्णुवपु-विभवर्द्धिभाभिरिव मेचकितम् । उदयत्तदीयशयनीयफणि-स्फुटरश्मिराशिनिभफेनधरम् ॥ सलिलेन विश्ववलयप्रलयः, समये मयैव रचनीय इति । मुहुरीरितापहृतवीचिभरै-र्जनयन्तमन्वहमिहाभ्यसनम् ।। पुरुषोत्तमो हृदि मदीयसुतं, शिरसीश्वरोऽपि विदधाति सदा । प्रमदादुदारतरगर्जमिव, प्रकटं नटन्तमिव वीचिकरैः ॥ अयि वज्रमाजि कुपिते युपतौ, कृतरक्षणं क्षितिभृतामभितः ।
स्फुरितोर्मिबाहुमिति कीर्तितती-र्जगति क्षिपन्तमिव फेनमिषात् ॥ १ ग-महायुर्भव ॥ सु. १६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org