SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ [ द्वितीय श्रीमदरिसिंहविरचितं . त्वं मनोभवमपास्य पुनस्त-जन्मभीरुरमुचः स्वमनोऽपि । किं हरन्तु हरिणीतरलादय-स्तावकं तदमनस्ककिरीट ! ॥ प्राप्य रत्नमिव पुण्यपयोधे-स्त्वां हृदि प्रणिदधाति जनो यः । स प्रयाति पुरुषोत्तमभावं, पश्य न स्वपिति किन्तु भवाब्धौ । यामवाप्य न नमामि भवन्तं, तां न निर्वृतिमपि स्पृहयामि । त्वत्प्रसादवशतस्त्वयि भक्ति-र्भातु मे जिन ! भवेऽपि भवेऽपि ।। निर्मितस्तुतिरिति प्रतियातः, कृत्स्नमेष सुकृती कृतशौचः । स्नानहेतुकलशान् घुसृणाम्भः-पूरितानयमचीचलदिन्द्रैः ॥ श्रावकाः प्रतिपदं हृदयाग्र-न्यस्तहस्तधृतकाञ्चनकुम्भाः । निस्तरीतुमिव संसृतिसिन्धु, कुर्वते स्म निरपायमुपायम् ॥ शुद्धसङ्घपतिकीर्तिलतानां, विष्टपत्रितयगर्भगतानाम् । आतपत्रपटली विमलश्री-रादिकन्दवदियं विरराज ।। अत्युदारतरनर्त्तनगीतै-रुत्सवेन महता प्रहताघः । प्राप मन्त्रितिलकः किल कर्म-ध्वंसिनो जिनपतेरथ चैत्यम् ॥ कुङ्कुमाम्बुभिरसिस्नपदीशं, श्रावकैः सह यथाविधि मन्त्री । तैर्विधौततनुरेष तदाऽभूत् , पर्वतो विमल इत्युचिताः ॥ अङ्गमण्डनमखण्डनमासी-निर्मितं मृगमदेर्जिनभर्तुः ।। क्लुप्तसन्नह्नसन्निभमुच्चैः, कर्मकूटरिपुकोटिजयाय । भूरिपुष्परचिता जिनभर्तु-लम्बिताः कृतिभिरर्चनमालाः । अप्रभूष्णव इव स्मरमुक्ता, भल्लयो वपुषि भूषणमासन् ।। तैस्तथा जिनपुरस्तिमिरोर्मि-निर्ममेऽथ पृथुधूपजधूमैः । सस्पृहेव सचिवं सुकृतश्रीः, कौतुकादभिससार यथाऽसौ ॥ आरात्रिकं कृतमथ प्रथमस्य तीर्थ-भर्तुः पुरः स्फुरदुरुधुतिचक्रवालम् । उच्चावचप्रसरणैर्निजघान सङ्घ-दोषद्विषः कुसुमवृष्टिविराजमानम् ।।. इत्थं प्रेक्षणकक्षणाहितमनाः सम्पूज्य विश्वत्रयी पूज्यं नाभिसुतं समाप्य च तथारूपामिहाष्टाहिकाम् । मन्त्रीशः प्रतिलाभितव्रतिततिः शत्रुञ्जयोर्वीधरा दुत्तीर्णः कृतमङ्गलः समजनि श्रीनेमिसेवोत्सुकः ।। किञ्च- शेर्वज्रधरस्य दैत्य-मरुतामाचार्ययोः प्रज्ञया, दानैर्देवगवी-मणि-क्षितिरुहां स्वर्गश्चिरं गर्वितः । ४२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002505
Book TitleKirti Kaumudi tatha Sukrut Sankirtan
Original Sutra AuthorSomeshwar Mahakavi, Arisinh Thakkur Kavi
Author
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages168
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy