SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् ] सुकृतसंकीर्त्तनमहाकाव्यम् । श्रीकपर्दिनमिति स्तुतिपूर्वं, यक्षरांजमभिपूज्य सहर्षम् । आशुं सङ्घपतिरेष ससङ्घस्तीर्थनाथनमनार्थमचालीत् ॥ उत्सुकैरथ जनैर्जिनचैत्यं, वीक्ष्य मङ्क्षु पथि गामिव वत्सैः । व्यक्तशक्तिरभसत्रुटितोच्चैः- कर्मबन्धतरलं प्रदधावे ॥ सञ्चरन् भुवि न माति जनो यः स्फूर्तिसङ्कुचित्तमूर्तिलतोऽसौ । द्रष्टुमास्यनलिनं जिनभर्तु - चैत्यधाम्नि स ममौ सममेषः || दल्यमानमसमानविमर्दे, हृद् हृदा ननु मिथस्तनुभाजाम् । आत्मभङ्गभयभंगुरसत्त्वै-रन्तरारिभिरमोचि तदानीम् || पापपङ्कशमनाय जनानां, स्नानमन्तरकरोद् ध्रुवमात्मा । रोमवर्त्मसु जलेन विमर्दे, स्वेदपूरमिषतः प्रसृतं तत् ॥ आबभौ घनघनाघनलक्ष्मी - रङ्गिनां प्रमदरोमविकारः । अन्तरस्थितजिनेन्दुरुचिश्री - निस्सर दुरिततामसतुल्यः ॥ लोचनैस्तनुमतामिति खिन्नैः प्राप्य जैनवदनामृत कुण्डम् । आशु क्लृप्तसवनैरिव रेजे, सम्मदेन विगलज्जललेशैः ॥ तत्र तादृशि जनस्य विमर्दे, शक्यते भ्रमयितुं न करोsपि । वीक्ष्य विश्वविभुमेनमनृत्यन्, भाविनो यदि मुदा मनसैव ॥ स्वीयतादृशविमर्दसुदूर-क्षिप्तसूरकिरणः किल लोकः । रत्नभूषणविभिन्नतमिस्रो, भक्तिकृत्यमकृत प्रभुचैत्ये ॥ धूलिधूम्रपद एव तदानी - मागतो जिनपतिं प्रणिपत्य । दूरपूरितमनोरथवेगः, स्तोतुमारभत मन्त्रिवरोऽसौ ॥ स्वद्गुणान् गदितुमीश ! समग्रान्, न स्वयं सुरवरोऽपि समर्थः । गोचरोऽप्यसि न मादृशवाचां, मौनमेव हि तव स्तवहेतुः ॥ त्वां निरर्थकगिराऽपि तथाऽपि, स्तौमि विश्वनुत ! मुग्धतयाऽहम् । प्रीतये निजशिशोः स्फुटलाला - भांसि लल्लरवचांसि गुरूणाम् ॥ न क्षमोऽयमहितानपि हन्तुं स्वं कुटुम्बकमयं च मुमोच । जल्पिता जिन ! परैरिति दोषाः, प्रत्युत स्तवनतां तव जग्मुः ॥ भाषितं भुवनभूषण ! भित्त्वा कर्म निर्ममपते ! भवतेदम् । श्रूयते त्वदभिधाऽपि कदाचिद्, यत्र तत्र न करोति निवासम् ॥ नाssवन्ति भवबन्धनिकेता- दग्रतस्तव गतस्य पढ़ें ये । भ्रम्यते भ्रमवशाज्जिन ! मुक्त्यै, तैर्वृथैव पृथिवीवलयान्तः ॥ Jain Education International For Private & Personal Use Only १६ १७ १८ १९ २० २१ २२ २३ २४ २५ २६ २७ २८ २९ ३० ११९ www.jainelibrary.org
SR No.002505
Book TitleKirti Kaumudi tatha Sukrut Sankirtan
Original Sutra AuthorSomeshwar Mahakavi, Arisinh Thakkur Kavi
Author
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages168
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy