________________
-
द्वितीय
श्रीमदरिसिंहविरचित शैलमौलिगमनाय मनोऽश्वै-र्भ्राजमानमसमानविहारैः । । प्रापदस्खलितमप्यसमेषु, द्राग् मनोरथरथं पथि सङ्घः ।। भूरिधातुमयजङ्गमशृङ्ग-श्रेणिवद्विविधचौरविचित्रः। मन्दमन्दमथ सङ्घजनोऽसौ, सञ्चचाल गिरिराजतंटेषु ॥ . मञ्जुलः कनककुण्डलकान्तैः, स्त्रीमुखैः सरवि-सोमशताभैः । एकभानु-हिमभानुमनोज्ञ, मेरुमप्यजयदेष गिरीन्द्रः ॥ अञ्चलैः शशिमुखीवसनानां, चञ्चलैः कटकसीमनि शैलः । सङ्घसङ्ग-सुकृतामृतसेका-दुद्भवत्प्रथमपक्ष इवाभात् ।। आन्तरेण नयनेन जिनेन्दो-राननेन्दुरुचिपानपराणाम् । अप्युदारगिरिशृङ्गविलासे, न श्रमः समजनिष्ट जनानाम् ।। नाम नामसुधया जिनभर्तुः, प्राप्तया जनमुखेषु न तृष्णा । दूरवर्तिनि मुखामृतकुण्डे, लोचनानि तृषितानि जनानाम् ।। प्राग्नियोजितमनोहततीर्था-धीशपादकमलाङ्कितमौलिः । शैलसानुषु जनो न तदानी, तापमाप तपनांशुततिभ्यः ॥ क्ष्मागतेन लघुकं यददर्शि, क्षोणिभृच्छिरसि तेन जनेन । उच्चकैर्विचरता ददृशे तत् , सङ्घसङ्गममदादिव पुष्टम् ॥ देवभक्तिभरनिर्मितहस्ता-लम्बनव्यतिकरण जनोऽयम् । आसदद् गिरिशिरांस्यतिहर्षा-मक्षु सम्मुखमिवागतवन्ति । अद्भुतप्रमदशालिषु शैलः, शेखरस्थितिषु तेषु जनेषु । भूतिभर्सितसुरेषु स रेजे, मेरुवन्नवरविच्छविपिङ्गः ॥ कर्मवैरिविजयाय सतेजा, नाभिभूपदनखांशुविचित्रम् । आरुरोह सचिवः शुचिदन्तं, दन्तिराजमिव तं गिरिराजम् ॥ वीदय यक्षमिह सङ्घजनौघः, श्रीकपर्दिनमथाब्धिरिवेन्दुम् । क्षुभ्यति स्म चतुरः स चतुर्धा, विस्तृतस्तरलहर्षतरङ्गः ॥ अन्तरायदलनाय जनौघ, तीर्थसेवनकृतेऽभिपतन्तम् । द्रष्टुकाम इव वर्मनि दूरा-दारुरोह गुरुशैलशिलां यः ॥ भावनासलिलशालिनि शश्वत् , तीर्थनाथपदपद्ममनोज्ञे । मानसे तनुमतां विलसन् यो, हंसवत् सृजति कामपि कान्तिम् ॥ यक्षमुख्य ! स भवान् भुवनैक-त्राणकारणमकारणबन्धुः । वत्सलेव जननी जनमेनं, नाथ ! पालयतु बालमिव स्वम् ।।
१ क-ख-तटीषु ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org