SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् ] किञ्च सुकृतसंकीर्तनमहाकाव्यम् | अवतर्मंसंततीनां मृत्युकालोऽपमृत्युः, कुवलयवलयानां जीवितं पङ्कजिन्याः । अल्मकृत नभोऽङ्कं कोकलोकस्य सीता - विरहितहरिशापानुग्रहोऽयं महेश: ॥ दयितमिति पुरस्ताद् वीक्ष्य भानुं युवानं, हरिहरिति हरिद्रारागमागः प्रकोपात् । स्फुटकमलमुखेभ्योऽमोचि निःश्वासधूमा-चलिरलिनिकुरुम्बच्छद्मना पद्मिनीभिः ॥ अजनि गिरिनितम्बे बिम्बमर्कस्य धातु-च्छुरितमिव सरागं सूर्यकान्ताग्नितप्तम् । करजलपरिधौतं चुम्बितं चाम्बरेण क्षणघटितसुवर्णादर्शवद् दिग्वधूनाम् ॥ सममसममयूखैर्भानुमन्तं लसन्तं गिरिशिरसि विलोक्याऽऽलोकनीयप्रभावम् । स इव स्वनिवर्त्ता सङ्घलोकेन साकं, विमलगिरिशिरोऽयं गन्तुमभ्युत्सुकोऽभूत् ॥ सद्यो जिनक्रमनमस्कृतिलोलसङ्घ-सङ्घट्टलोलवसुधातलसम्भ्रमेण । श्रीवस्तुपाल हृष्ट इवाचलोऽपि शत्रुञ्जयः स्वयमकम्पयदेष मौलिम् || नित्यं त्वद्वदनारविन्दसदनं वाग्देवता सेवते, त्वं पद्माश्रयभासुरोऽसि जयति त्रैलोक्यसूत्रं त्वयि । श्रीमच्चण्डपगोत्रमण्डन ! गुणैरभिर्भवान् ब्रह्मणः, साधर्म्यं वहति प्रियंवद ! मदाशीर्भिस्तदायुर्भव ॥ १ अलभत बत ! यस्मिन् सान्द्रदारिद्र्यपूर्णे, गृहपतिरवकाशं न प्रदोषक्षणेऽपि । वितरति सति वित्तं वस्तुपाले कवीना - मिह गृहकुहरान्तर्नैष रत्नाकुलेऽपि ॥ श्रीमन्त्रीश्वरवस्तुपाल ! भुजयोर्युग्मेन युद्धार्णवं, २ तूर्णं निस्तरतोऽपि ते समभवन्न व्याकुलत्वं किल । यद्दूरादवगण्य निर्मलगुणं शङ्खं त्वया मौक्तिक स्तोमानामिव धैर्यधुर्य ! यशसां चक्रे महान् सङ्ग्रहः ॥ श्रीवस्तुपालसचिवेन्द्र यशःप्रसून-माल्येऽरिसिंहकविना गुणगुम्फितेऽस्मिन् । कण्ठे सतां लुठति निर्मदुर्जनाली - वक्त्रप्रभाः कति न बिभ्रति भृङ्गभावम् ? ॥ ४ प्रतिसर्ग प्रबन्धेऽस्मिन्नरिसिंहविनिर्मिते । इमान्यकृत चत्वारि, काव्यान्यमरपण्डितः ॥ ५ Jain Education International ॥ इति सुकृतसङ्कीर्त्तननाम्नि महाकाव्ये सूर्योदयवर्णनो नाम षष्ठः सर्गः ॥ ६॥ ≪安 For Private & Personal Use Only ३ ११७ ३१ ३२ ३३ ३४ ३५ www.jainelibrary.org
SR No.002505
Book TitleKirti Kaumudi tatha Sukrut Sankirtan
Original Sutra AuthorSomeshwar Mahakavi, Arisinh Thakkur Kavi
Author
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages168
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy