SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ श्रीमद्रिसिंहविरचितं [हितीयं विरहशिखिसमीरः कामनासीरवीर-स्तिमिरतरुकुठारः पूर्वदिक्तारहारः ।। गगनगजनिषादी कामिनीचक्रवादी, सितरुचिरुदितोऽयं वर्धयन् वार्धितोमम् ॥ १६ इभकुलमिभमल्लोद्भासि कैलासशैला-कृतिमकृत नगौधं शेषवच्छेषसोन् । रुचिरमृतमरीचेः सङ्घभर्तुर्यशःश्री-रिव धवलितविश्वा जाह्नवीं निहनुवाना ॥ वियदहनि वितेने स्वस्य विश्वस्य सङ्घ-क्रमसमुदितधूलीमण्डलैर्मण्डनं यत् । सुकृतमिदमिदानी मूर्तमभ्युद्यदिन्दु-द्युतिनिभमिति लेभे भिन्नमालिन्यमालम् ॥ १८ चिरमुपचितहर्षः सङ्घलोकावलोका-दिव कृतसुकृतोऽयं व्योमचूडावलम्बी। सहजनिजकलङ्घन्यत्कृतिभ्राजमाना-कृतिरकृत न केषां विस्मयं शीनरश्मिः ? ॥ १९ निशि नियतमियत्यामप्यमु सङ्घलोकं, कृतमहामेह भक्त्या जागरूकं विलोक्य । इयमधुनुत मौलिं विस्मिता व्योमलक्ष्मीः,कुसुममिव तदाऽस्मान् मन्दमभ्रश्यदिन्दुः ॥ २० गिरिशिरसि जिनेशं नन्तुकामस्य मा स्या-महमहह ! महत्त्वादस्य यात्रान्तरायः । । इति विस्मरभावभ्राजमानक्षणस्य, क्षणमपि न तमिस्रा सङ्घलोकस्य जाता ॥ चलितसकलतारालोकमामुक्तसन्ध्या-दहनमिह विहायोमण्डलं द्राग् विहाय । सहजमहसि सूरे हन्तुमागन्तुकामे, परमपरमहीभृदुर्गमिन्दुर्गतोऽयम् ॥ सजलजलदचारुर्वारुणीरागभाजः, क्षितितललुठितस्यामुष्य मुक्ताम्बरस्य । समरतिमिरवेषो यज्वनां भर्तु रेष, त्रिभुवनभवनान्तर्दुर्यशोराशिरासीत् ॥ स्फुटघटितकलङ्को यज्चनामेष भर्ता, त्यजति करगृहीतामप्युषां भूरिभुक्ताम् । • इति बत ! कुमुदिन्यः सारसौरभ्यलोभा-गतमधुपधवेषु व्यादधुर्बन्धसन्धाम्॥ हरिहरिति रथाङ्गानल्पसङ्कल्पकल्प-द्रुम इव दिवसेऽस्मिन्नुद्गमारम्भभाजि । जलधिसविधगुप्तादंशुमद्विम्बबीजा-दुदयत मृदुतेजःकैतवादकरोऽयम् ॥ पतितवति पयोधेरन्तरा हन्त ! रात्रि-प्रिययुवतिविभेदाद् दुःखभाजि द्विजेन्द्रे । द्विजततिरतितारं निर्ममे तारकाणां, पथि कलकलमुच्चैरुच्चरन्ती चिराय ॥ भृशमुषसि तुषारस्यन्दसङ्काशतारा-वलिवलयितनीलध्वान्तदूर्वावणौघः । गगनपथविहारोच्छृङ्खलैरस्खद्भि-स्तरणिकरकिशोरैर्जग्रसे मुक्तमुक्तैः ।। भुजगजगति 'भूति भोगिचूडामणीनां, भुवि भवनमणीनामम्बरे तारकाणाम् । सपदि विपदमेता निन्यिरे भू-र्भुवः-स्व-स्त्रयविवरविलासव्यापृता भानुभासः ॥ मसृणघुसृगक्लप्तश्चन्द्रलेखानुकारी, तिलक इव समुद्यन् प्राग्दिशः सूर्यलेशः ॥ अयमभजत जम्भारातिकुम्भीन्द्र कुम्भ-स्थलविलुलितलीलाशातकुम्भाङ्कुशाभाम् ॥ २९ जलनिधिजलमध्यात् तुङ्गशैलाग्रजाग्र-त्करपरिचयशक्त्या भानुरभ्युजगांम। . सपदि विपदपेतं कान्तमेन विलोक्य, प्रहसितमुखपमा पद्मिनी नृत्यति स्म ॥ ३० १ ग-भूतिर्भो ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002505
Book TitleKirti Kaumudi tatha Sukrut Sankirtan
Original Sutra AuthorSomeshwar Mahakavi, Arisinh Thakkur Kavi
Author
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages168
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy