________________
परिशिष्टम् ]
सुकृतसंकीर्त्तनमहाकाव्यम् ।
जिनमहमांहेमानं प्रत्यदीयन्त दूरा-दथ वलयितवृन्दं रासकाः श्राविकाभिः । तनुसदननिषण्णक्रूरकाकोलकाल- स्फुरितदुरितजालत्रासकृत्तारतालम् ॥ कर किशलयलीलालोलतालप्रणादो-ल्लसितलयविनोदानन्दनिर्मग्नचित्तः । जिनवदनविलोकयग्रदृग् भाविलोकः, प्रतिपदमभिरामं गीतमङ्गीचकार ॥ गतमदनमदानां भाविनामत्र भावान्तरितरसतरङ्गैरङ्ग ! चित्तं हरन्ती | लयविलुलितहारैरङ्गहारैर्मृदङ्ग-ध्वनिजनितविनोदं नर्तकी नृत्यति स्म ॥ अशिथिलपदपातं प्रीतिपूर्णे जनेऽस्मिन्, नटति झटिति भेजे भूरियं भूरिकम्पम् । शिथिलकर कदम्बः प्रत्यगद्रेः पतित्वा, तदिव दिवसनाथः सिन्धुपाथस्यमज्जत् ॥ पतितवति पतङ्गे रङ्गदुत्तुङ्गताप - व्यतिकरकृति सद्यः प्रीतिहृद्या इवाऽऽशाः । तुहिनमहसि कामं रन्तुमागन्तुकामे, खगकुल तुमुलेन भेजिरे कौतुकिन्यः हर गलगरलाभं व्योम्नि काष्ठान्तराल ज्वलदविरलसन्ध्यावह्निविध्यानहेतुः । शबलममलरत्नैरुत्पपातार्कतापा- ज्जलमिव जलराशेरन्धकारं सतारम् ॥ विषमलिमिषमास्ये न्यस्य मूर्च्छामगच्छन्, परिमिलितदलालीचक्षुषः पद्मखण्डाः । प्रियसुहृदि गतेऽस्तं भास्वति ब्रह्मचर्य व्रतमविरलशोकः कोकलोकश्च भेजे ॥ स्वदिवसपरिवृत्तिज्ञानतः कापि यातः, प्रसरति रिपुरूपे ध्वान्तपूरेऽपि सूरः । अथ गुरुगिरिदुर्गान् प्राप्य भासस्तदीया, दिशि विदिशि बबन्धुर्बन्धुतामोषधीभिः ॥ अतुहिनमहसेव स्वैरवैरप्ररोहा-दपगिरिगरीयः कुञ्जगुप्तेन मुक्ताः । अहह ! दहनदीप्ता दीपदम्भेन भेजु-दिशि तिमिरौघं भल्लयः शल्लयन्त्यः ॥ प्रथमसमुदितेन्दुज्योतिपूर्णेयमुद्घाटितविकटकपाटद्वारवत् पूर्वकाष्ठा । मुदमतनुत साक्षादन्धकारान्ध्यकारा - गृहकुहरगतस्यामुष्य विश्वस्य मुक्त्यै ॥ घुमणिमणिगणैर्यत्किञ्चिदप्यहि वह्नि - द्युतिततिभिरदाहि दमारुहादि क्षणेन । इह तदपि तदानीं जीयते स्म त्रियामा-रमणमणिसुधाभिः सर्वतः पर्वतेषु ॥ अहनि दहनकीलाभैरवैः कैरविण्य-स्तरणिकरणजालैर्मूच्छितातुच्छमूर्च्छाः । विधुरुचिमधुसेकैश्छेकलोलालिबाल-व्यजनपवनलीलावीजनैरप्यजीवन् ॥ समदमदनभूभृन्नव्यसाचिव्यलब्धि- प्रगुणितगुणमब्धिर्नन्दनं चन्द्रमेनम् । तरलतरतरङ्गोत्तुङ्गदुत्तुङ्गबाहुः, परिचित परिरम्भारम्भमभ्युत्पपात ॥ उड्डुगणमिषमुक्तव्यक्तमुक्ताकलापं, गजदनुजमिवेन्दुर्ध्वान्तमुच्छिद्य सद्यः । हृदि तदजिनखण्डं लक्ष्मलक्षेण बिभ्रद्, व्यहरत हरमूर्तिर्मूर्ध्नि धात्रीधरस्य ॥ भृशमुरसि कलङ्कच्छमना कालचित्रौ -षधिमधित निबद्धामोषधीनामधीशः । अपि पिबति चकोरीचक्रवाले कराले, तदिव न दिवि नेशुर्भासुरास्तस्य भासः ॥
Jain Education International
For Private & Personal Use Only
११५
१
२
४
५
८
१०
११
१२
१३
१४
१५
www.jainelibrary.org