SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ परिशिवम् ] , सुकृतसंकीर्तनमहाकाव्यम् । अथ गिरीशतटीषु मनीषिणां, परिवूढः परिपूर्णमनोरथः । । षडपि तत्र ददर्श ऋतून कला-शुचिरयं चिरयन्त्रितविभ्रमान् ॥ प्रकटितायसकतरिका मधौ, मधुसखस्य भटा इव किंशुकाः । भ्रमरसङ्गसितेतरविस्फुरत्-सुमनसो मनसो ददते मुदम् ॥ इदमभूद् दलयन् नलिनी: प्रियाः, मम महःपरिखण्डनहेतवे । इति हिमस्य भिदामहिमद्युतिः, स्म तनुते तनुतेजितविष्टपः ।। स्मरशिखी तनुमानिव चम्पकः, कुसुमितो मधुपावलिधूमितः । दहति काननसीमनि काञ्चन-च्छविरहो ! विरहोषितयोषितः ।। स्मितसरोजमुखीमुखवासना-सुरभिमद्यविशेषितसौरभम् । परिहृतापरवल्लिमधुव्रती-धवकुलं बकुलं प्रति धावति ॥ सुमनसां त्वमसि स्थितिभूस्त्वया, जाति विश्वमसौ कुसुमायुधः । मधुमितीह रसालरसालसा, पिकवयः कवयः कवयन्त्यमी ॥ स्मरनृपस्य चरत्वमुपागता, द्विजचया मधुरध्वनिशालिनः ! मधुलिहः सुमनस्सु ददुः पदं, तिलकजालकजातविभूतयः ॥ दधुरनङ्गनिषङ्गतुलामधो-मुखशिलीमुखराजिविराजिताः । स्फुटविकाशमुखाः कमलाकराः, न पथि कं पथिकं प्रति प्रीतये ॥ स्तुतगुणं कुतुकेन मधुव्रतै-रिव रवाकुलितैः सुमनोमयम् ।। मधुसखाय मधोविनियोगतः, शरचयं रचयन्तितमां लताः ॥ व्यथयति प्रथितारुणतेजसो, दहनमन्त्रमयादिव शस्त्रतः । मधुसखोऽयमशोकलतालसत्-कुसुमतोऽसुमतो विरहातुरान् ।। मलयजद्रुमसङ्गिभुजङ्गम-स्फुरितफूत्कृतिसम्भ्रमसम्भृतः । पथिकलोलदृशां मलयानिलः, सुविषमो विषमोहमिव व्यधात् ॥ कमलकोमलकोशकुचोलते-रलिकलालिकलासितसम्पदः ।। व्रततिकाततिकायवनश्रियो-ऽधिकमशोकमशोभत पाणिवत् ॥ .. कमलकान्तिहरी कृशतां नयन् , सह हिमाद्रिहिमेन विभावरीम् । कमलबन्धुकृतोन्नमनो बभौ, शुचिरयं चिरयन् दिवसश्रियम् ॥ द्रुतसमेतदिनाधिपतिप्रभा-परिगलद्गतशेषतमीकणाः । अनिललोलशिरीषरजच्छलाद् , द्विरदनीलरुचो बभुः ॥ अहमिहारुणधाम्नि सितेतरो, बत ! विभाम्यथवाऽत्र सितच्छ्वौ । भ्रमति भृङ्गयुवा नवपाटले, विचकिले च किलेति मुहुर्मुहुः ॥ १ग-पथिकलोकह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002505
Book TitleKirti Kaumudi tatha Sukrut Sankirtan
Original Sutra AuthorSomeshwar Mahakavi, Arisinh Thakkur Kavi
Author
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages168
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy