Book Title: Kirti Kaumudi tatha Sukrut Sankirtan
Author(s): Someshwar Mahakavi, Arisinh Thakkur Kavi,
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
१२२
[द्वितीय
श्रीमदरिसिंहविरचितं अकृशैः कृशैश्च नवशुक्तिफल-प्रकरैर्विभान्तमभितः शुचिभिः । शिशुभिर्निजैः शशिभिरङ्कधृतै-रिव भाविभूरितरकल्पकृते ।। घुमणिः क्षपामणिरपि प्रभया, मयि मुच्यते जयति कोऽयमिह । इति विस्मयादपरवारिधिना, सचिवोऽप्यनन्यसदृशो ददृशे ।। अथ कम्बुचिह्नशुचिरम्बुनिधिः, स्फुरितेन्द्रनीलमणिनीलरुचिः । रभसादसस्मरदमात्यपते-नमनाय नेमिजिनमात्मगुणैः॥ अथ सञ्चलनचलरैवतकं, पुरतः स्फुरत्पवनलोललतम् । सचिवो ददर्श शुचिसङ्घसमा-गमनप्रवृत्तमदनृत्यमिव ॥ . वनवल्लयो गुरुतयाऽस्य गिरेः, शिखरान्तरालललितोडुगणाः । विबभुर्भृशं सविधनेमिविधु-प्रभवप्रभावसततप्रसवाः ॥ गिरिरेष सिन्धुतनिकानिकरै-र्वितनोति धर्मनृपतिस्थुलताम् । कलशश्रिय शिरसि यस्य दधौ, गगनापगाध्वजिनि नेमिजिनः ।। न तथा व्यराजदुडुशुक्तिफलै-स्तरणीन्दुकुण्डलयुगेन न च । शुशुभे समुद्रविजयाङ्गभव-प्रभुमौलिनीलमणिनैव यथा ॥ अवलोक्य धूपमयधूमततिं, जिनधाममूर्धनि पयोदधिया । इह चातकैः स्मितमुखैर्मुमुदे, वियदापगालहरिसीकरतः ॥ कटकस्थकाननकलापिकुलं, घनकाल एव मुदमुबहते । इह नेमिमन्दिरमृदङ्गरवै-रनिशं शिरोवनविलासि पुनः ॥ इति वर्णयन्नयमनूननयः, सचिवः शिवश्रिय इवाऽऽश्रयभूः । कृतसन्निवासरचनः सुचिरं, गिरिदर्शनोत्सवविधिं व्यधित ॥ कृतकृत्य एव समये शयितः, क्षणदाक्षयक्षणविबोधशुचिः । प्रणिपत्य नेमिनमयं मनसा, सचिवो मनोरथमिति व्यदधात् ॥
जनये जिन ! स्मितमनाः स्नपनं, भवदीयदर्शनसुधाजलधौ । भवदावपावकभुवोऽभिभवन् , विपदः कदाऽहमपदाहवपुः ? ॥ भुवनाधिपातिभवदाहभिदे, भवदङ्घ्रियुग्ममहमाप्तमहः । निदधामि मूर्ध्नि नलिनाभमथ, प्रलयैकदारुण ! कदाऽरुणितम् ? ॥ भवकाननान्तरविहारभवां, भवदाननेन्दुरुचिपानरुचिः । विषमां तृषं परिहरामि चिरा-चपलश्चकोर इव देव कदा?॥ विकटं नयामि शिखिवच्छिरसि, स्वकरौ कलापिकलया कलयन् । अवलोक्य वारिदमिवाशु कदा, शुकदारदीप्तिभवदीयवपुः ? ॥
२२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168