SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ सुकृतसंकीर्त्तनमहाकाव्यम् । शस्त्रविस्तृतिपरः परं परो, रक्षति क्षितिमिमामरातितः । वस्तुपलसचिवस्तु पालय - त्येष देव - गुरुवन्मनीषया ॥ संग्राम सिंहकुयशोभरभृङ्गभङ्गि - भास्वद्यशः कुसुम सौरभसम्भृताशः । वाग्वैभवेन किल कोकिलकोमलेन, शश्वद् वसन्त इव भासि वसन्तपाल ! ॥ ३ श्रीवस्तुपालस्य यशस्तरङ्ग - पूरैः परीतं परितोऽरिसिंहः । व्यधत्त दुग्धाब्धिमिव प्रबन्ध-ममुं समुद्भूतर सप्रशस्यम् ॥ प्रतिसर्गं प्रबन्धेऽस्मिन्नरिसिंहविनिर्मिते । इमान्यकृत चत्वारि, काव्यान्यमरपण्डितः ॥ ५ परिशिष्टम् ] ॥ इति सुकृतसङ्कीर्त्तननाम्नि महाकाव्ये मन्त्रिप्रकाशो नाम तृतीयः सर्गः ॥ ३ ॥ Jain Education International ((())) वस्तुपालसचिवेन्द्रशेमुषी - सम्मुखः पुरुषपौरुषोदधिः । मेदिनीमजयदब्धिमेखला - मेष वीरधवलोsथ दुर्द्धरः ॥ तन्महामतिरकम्पसङ्कटे, कण्टकालिरहिते हितः सताम् । न्यायवर्त्मनि समे समन्ततः, सम्मदेन समचीचरत् प्रजाः ॥ कस्यचिद्धरणिमण्डलच्युते, कुण्डलेऽपि मणिराजिराजिते । शङ्कयेव भृशमाशुशुक्षणेः, कोऽपि न क्षिपति पाणिपङ्कजम् ॥ ऋद्धिवृद्धिविशदेषु सर्वदा, देशवासिषु जनेषु मानिषु । दीयमानमपि नाददीत यत्, कोऽपि तस्करकथा ततः कुतः ? | सर्वथाऽप्यसति याचके कचित्, कोऽपि किञ्चिदपि न प्रयच्छति । कौतुकात् कविभिरेव वर्ण्यते, दानवानिति महाधनो जनः ॥ एतदाननविलासि पालयत्याशु वीरधवलादपि द्विषः । आप्तगौरवमिति च्युतं क्षितेनैव कश्चिदुदपाटयत् तृणम् ॥ नित्यचैत्यकुतुकावलोकन- व्यग्रलोकमणिभूषणांशुभिः । जर्जरे रजनितामसेऽफलत्, पांशुलासु न मनोरथद्रुमः ॥ इत्यवेक्ष्य मुदितं पदे पदे, लोकमुल्वणविवेकमेकदा | वस्तुपालसचिवं व्यजिज्ञपद्, व्यक्तभक्तिभरभासुरोऽनुजः ॥ बुद्धिरेव तव देव ! दासता मानिनाय विषमानपि द्विषः । मण्डनाय नृपमण्डलश्रिया - मेव वीरधवलस्य वाहिनी ॥ For Private & Personal Use Only २ ४ १ ४ ५ ७ १०७ www.jainelibrary.org
SR No.002505
Book TitleKirti Kaumudi tatha Sukrut Sankirtan
Original Sutra AuthorSomeshwar Mahakavi, Arisinh Thakkur Kavi
Author
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages168
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy