SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ १०८ [ द्वितीय श्रीमदरिसिंहविरचितं योगपात्रवदपात्रमप्यलं, प्रीणयत्यनुदिनं धनैस्त्वयि । तस्करेऽपि भृशमर्थितां गते, शेरते पुरि सुखेन रक्षकाः ॥ तावकीनयशसैव शाश्वतीं, पूर्णिमां शशिसमेन तन्वता । उज्ज्वले जगति पांशुलाकुलै-राकुलैरहह ! साधुता दधे ॥ . त्वन्महोभिरहिमांशुकोटिवद् , विप्रकीर्णनयनेन राहुणा । तिग्मभानुरनुपप्लुतोऽभवत् , सीम्नि वर्षति विशेषहर्षितः ।। इत्थमद्भुतविभूतिभूरभूद् , देव ! देशजनता नयात् तव । जैनधर्मपरिवर्धनोचितं, तन्महीरमणशासनं स्मर ॥ बान्धवस्य सुरसिन्धुबन्धुरां, भारतीमिति निशम्य सम्मदी । आह किञ्चन विचिन्त्य चातुरी-रोचितः सचिवचक्रशेखरः ॥ आत्मगोत्रगुरवः पुराऽभवन् , विश्रुता भुवि महेन्द्रसूरयः । यैः सिताम्बरवरैः सिताम्बरं, निर्ममे जगदमेयकीर्तिभिः ॥ यैरजीयत जगत्त्रयीजयी, मन्मथोऽयमिदमद्भुतं न नः । यद्भुवाऽपि यशसा यतो जितः, कामजिन्मुकुटकुटिमः शशी॥ शान्तिसूरिरथ तत्पदश्रियो-ऽलङ्कृतिः कृतिषु शेखरोऽभवत् । उद्गृणन्ति मरुतोऽपि यद्गुणान् , विस्मृतामृतरसा रसाधिकम् ॥ यं सुदर्शनधरं हरिभ्रमा-नास्पृशद् गुरुरिति स्वयं रतिः । कान्तसोमकलमीशशङ्कया, यं जयोति मदनोऽपि नैक्षत ॥ तत्पदेऽतिविदितप्रथावथा-ऽऽनन्दसूर्यमरसूरिसंज्ञको । वासमन्दिरविलासमन्दिरे, श्रेयसां मुनिविभू बभूवतुः ।। शैशवेऽपि मदमत्तवादविद्वारवारणनिवारणक्षमौ । यौ जगाद जयसिंहभूपति-याघ्र-सिंहशिशुकाविति स्वयम् ॥ जल्पतोर्जगति निर्भरं ययो-यद्वदत्वमगमन् विवादिनः । खं यदि स्फुटरवानुवादतः, स्वस्य शब्दगुणतामदर्शयत् ॥ तत्पदाम्बुरुहषटपदाः पदं, भेजिरेऽथ हरिभद्रसूरयः। यैर्विलुप्य कुसुमानि कीर्तिभि-लीयैव कुसुमायुधो जितः ।। संयमप्रभृतिभिस्तथा गुणैर्यन्मनःपदमपूरि भूरिभिः । न प्रवेष्टुमिह मन्मथो यथा-ऽनङ्गतामपि गतः क्षमोऽभवत् ॥ सन्ति सम्प्रति तदीयशासने, सूरयो विजयसेनसूरयः । उज्झितो जगति यैर्महास्त्रव-न्मन्मथोऽपि भवभेदकोऽभवत् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002505
Book TitleKirti Kaumudi tatha Sukrut Sankirtan
Original Sutra AuthorSomeshwar Mahakavi, Arisinh Thakkur Kavi
Author
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages168
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy