SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् ] सुकृतसंकीर्त्तनमहाकाव्यम् । सर्वतोमुखतपोहुताशनै-हुतः स्मर इति व विस्मयः ? । निर्णितः पुरजिता पुरा यतो, नेत्रमात्रतुलिताग्निनाऽपि सः ॥ गम्यते तपनरम्यतेजस - स्तस्य वन्दनविधित्सया गुरोः । देशनां समधिगम्य तन्मुखाद्, धर्मकर्मणि निधीयते मनः ॥ इत्युदीर्य मतिभासुरः पुरस्कृत्य कृत्यविदसौ सहोदरम् | कम्पयन् कलियुगं मनोरथै - राससाद वसतिं मुनीशितुः ॥ द्वारमध्यमविशन्निषेधिका - मुद्गिरन् गुरुमवेक्ष्य तत्पुरः । बाष्परुद्रस्यन: पदे पदे, सम्मदेन घनगद्गदोऽस्खलत् ॥ दुःषमाविषमता पतापितां, वीजयन्निव धरामसौ चिरात् । अञ्चलेन करचञ्चलेन त चक्रिवान् गुरुनमस्कृतिं कृती ॥ दन्तदीप्तिपटलच्छलोच्छल - न्मूर्त्तिमत्सुकृतवर्मितामिव । वित्रुटदुरितराशिराशिषं, निर्ममे तदनु निर्ममेश्वरः ॥ सोऽभ्युदञ्च्य कथमप्यथ क्षिते - भक्तिभारनमितं शिरश्चिरात् । अग्रतो मुनिविभोर्व्यभूषयद्, युक्तमासनममुक्तवासनः ॥ आकलय्य मुखवस्त्रिका मुख- द्वारि विस्फुरितदन्तदीप्तिवत् । देशनां सचिवभर्तुरग्रतः कर्तुमारभत सूरिशेखरः ॥ वीतरागमतधर्मकारिणः, साधुवृत्तगुरुभक्तिभासुराः । श्रावकाः कतिचिदाप्तभावना - दान - शील- तपसो भवन्ति चेत् ॥ दान - शील-तपसां विजित्वरी, भावनैव भवनाशिनी भवेत् । तां पुनर्विजयते प्रभावना, सा तु सम्पदि सुखेन साध्यते ॥ अस्थिरः करभिका इव श्रियः पातयन्ति नरकावटे नरम् । कश्चिदेव निपुणं नियोजकं लङ्घयन्ति विकटां भवाटवीम् ॥ श्रावकत्वममलं कुलं कला - चक्रवालमपि कश्चिदुद्वहन् । सम्पदा ललनयेव लोलया, पीतमद्य इव मोह्यते जनः ॥ श्रीलता शुचितरेषु रोपिता, स्थानकेषु समये यथाविधि । पुष्पिताऽद्भुततरैर्यशोभरै- राशु पुण्यफलहेतवे भवेत् ॥ न स्थिराः कचन यान्ति खण्डशः, सम्मिलन्ति रसवत् कथञ्चन । सम्पदः प्रकटितप्रभावनाः, कस्यचिद् यदि भवन्ति सिद्धये ॥ पावयन्ति परिक्लृप्तभावना - दान - शील- तपसः स्वमेव तत् । विश्वशासनविकाशदीपिकां, व्यातनोति विरलः प्रभावनाम् ॥ Jain Education International For Private & Personal Use Only २५ २६ २७ २८ २९ ३० ३१ ३२ ३३ ३४ ३५ ३६. ३७ ३८ ३९. १० www.jainelibrary.org
SR No.002505
Book TitleKirti Kaumudi tatha Sukrut Sankirtan
Original Sutra AuthorSomeshwar Mahakavi, Arisinh Thakkur Kavi
Author
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages168
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy