SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ श्रीमदरिसिंहविरचितं [हिती जल्पितानि बहुशः प्रभावना-कारणानि मुनिमिः पुरातनैः । उत्सवो भवति तीर्थयात्रया, तेषु शेखरणिस्तु निस्तुषः ॥ सिद्धलोक इव सङ्घतां गतः, पूज्यते ननु जनो जिनैरपि । धन्य एव स तु तीर्थयात्रया, कोऽपि सङ्घपतितां बिभर्ति यः ।। दिक्पुरन्ध्रिकुतुकाय कस्यचिद्, रौप्यदर्पणनिभो यशश्चयः । सङ्घसङ्घटितरेणुमार्जना-दिन्दुधामधेवलो विलोक्यते ॥ सङ्घभर्तुरधिरोपितस्तथा, वर्द्धते सपदि पुण्यपादपः । दर्शयत्यमृतसन्निभं यथा, विष्टपत्रितयमौलिग फलम् ॥ - ४३ नागेन्द्रगच्छमुकुटस्य मुनेरनून-माकर्ण्य कर्ण्यमिति मन्त्रिपतिर्विचारम् । नत्वा स्वधामनि जगाम जिनेन्द्रयात्रा-निर्माणनिर्मलमनोऽतिमनोरथश्रीः ॥ ४४ किञ्चवितन्वाते विश्वाङ्गणसदसि यावत् तव यशः प्रतापाभ्यामभ्युल्लैसितरुचिवादं विधु-रवी । भज स्थैर्य सोमान्वयतिलक ! तावत् क सुकृतैः, कृतैर्लभ्यः सभ्यस्त्वमिह गुण-दोषैकनिकषः १ ॥ ईदृक् कश्चिद् विपश्चिजनमनसि चमत्कारकारी पुराऽपि, ___ कापि प्रापि प्रबुद्धे वसुमति सुमतिर्वस्तुपालस्य तुल्यः । येन क्षीरार्णवार्णश्चयसिचयजुषः सिद्धसिन्धूत्तरीय श्रीविस्तारोत्तराया व्यरचि शुभरुचिः कीर्त्तिभिः कञ्चकस्ते ॥ २ सच्चक्रनन्दकपुरोगदयाद्भुतश्री-स्त्वं वस्तुपाल ! पुरुषोत्तम ! जिष्णुरेव । तद् दूयते तु हृदि मेऽवहमेव शलो, यत् सिन्धुराजतनुभून करे गृहीतः ॥ ३ कविन को निस्तुषवस्तुपाल-यशःसुधाविद्धरसं रसज्ञः । प्रबन्धमास्वादयतेऽरिसिंह - मुखारविन्दैकमरन्दमेनम् ? ॥ प्रतिसर्ग प्रबन्धेऽस्मिन्नरिसिंहविनिर्मिते । इमान्यकृत चत्वारिं, काव्यान्यमरपण्डितः॥ ५ ॥ इति सुकृतसंकीर्तननाम्नि महाकाव्ये धर्मोपदेशनो नाम चतुर्थः सर्गः ॥४॥ एस--धवलोऽवलो ॥ २ ख-लसिरुचिविवादं ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002505
Book TitleKirti Kaumudi tatha Sukrut Sankirtan
Original Sutra AuthorSomeshwar Mahakavi, Arisinh Thakkur Kavi
Author
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages168
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy