________________
परिशिष्ठम्
सुकृतसंकीर्तनमहाकाव्यम् । । स तीर्थयात्रासु मनोमनोरथ प्रकाशयन् सम्मदमेदुरोद्यमः । पुरे पुरे श्राद्धजनाय नायको, विवेकभाजां लिखितान्यलीलिखत् ॥ अवाहनानामपि वाहनावली-मशम्बलानामपि शम्बलं बली।। अकिङ्कराणामपि किङ्करान् कृती, वितीर्य सङ्ग्रे समवीवहद् बहून् ॥ अदोषधीमन्त्रिपतिस्तदौषधी-रमीमिलद् विश्वरुजां विजित्वरीः । बभूव ताभि शमौषधीपतिः, स कौमुदीकोमलकीर्तिकारणम् ॥ वृथैव वैद्याननवद्यवैभवान् , समं स मन्त्री जगृहे महेच्छया । प्रभूष्णुसचक्रमरेणुराशिजं, तदाऽखिलव्याधिहरं तमोऽपि यत् ।। न यद्यपि प्रौढवृषप्रभावतो, भविष्यति स्पृष्टमनोभिदा कचित् । परोपकाराय तथाऽध्ययं कृती, युगादिसर्वज्ञकृताग्रहोऽभवत् ॥ अथासितीवव्रतनिर्जितान्तर-द्विषो भवाम्भोनिधिकुम्भसंभवान् । मठेषु गत्वा स्वयमद्भुतादरः, समं शमीन्द्रान् समवाहयत् कृती ॥ सतां पतिः सङ्घपतित्वरोपणा-भिषेकमासाद्य गुरोः कराम्बुजात् । शुभे मुहूर्तेऽद्भुतबाहवाहिनी-वृतोऽचलञ्चन्दनचर्चिताकृतिः ॥ ततश्चतुर्विंशतितीर्थकृत्कला-कलादितीर्थङ्करदेवतालयः । चचाल नृत्यादिविनोदतत्परः, प्रजामुदश्रुस्नपितेन वर्मना ।। पिबन् पयः स्वःसरितो वियद्वने, शशाङ्ककान्तीस्तृणुते तृणोपमाः । विशृङ्खलो यस्य यशःकिशोरकः, समं त्रिगोत्रैकगुरुस्ततोऽचलत् ॥ अथानुचेलनरचन्द्रसूरयो, लसत्त्रसस्तोमविलोकनच्छलात् । दशैव सिञ्चन्त इवाद्भुतलमां, प्रयाति सङ्घ वसुधां सुधान्तया ॥ अथाचलन् वायटगच्छवत्सलाः, कलास्पदं श्रीजिनदत्तसूरयः । निराकृतश्रीषु न येषु मन्मथः, चकार केलिं जननीविरोधतः । भवाभिभूतेन मनोभुवा भया-दनीक्षितैः क्लप्तभवाभिभूतिभिः ।। अचालि सण्डेरकगच्छसूरिभिः, प्रशान्तसूरैरथ शान्तिस रिभिः ॥ शरीरभासैव पराभवं स्मरः, स्मरन्ननश्यत् किल यस्य दूरतः । स वर्द्धमानाभिधसूरिशेखर-स्ततोऽचलद् गल्लकलोकभास्करः॥ सहस्रशीर्षोरगकल्पकीर्तयः सहस्रधामप्रतिमानतेजसः । सहस्रनेत्रप्रमुखामरस्तुताः, सहस्रशोऽन्येऽपि च सूरयोऽचलन् ।। चतुर्दिगापूरणभूरिनिःस्वन-श्चतुःसमुद्रान्तमहीतलागतः । " ततश्चतुर्थव्रतनिश्चलोऽचल-चतुर्विधः सङ्घजनो यथाविधि ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org