SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ ११२ द्वितीय श्रीमदरिसिंहविरचितं वितन्वतः कासहूदाख्यपत्तने, महोत्सवं नाभितनूजसद्मनि । सहायतां प्रत्यशृणोन्महामते-रमुष्य दृग्वम॑नि देवताऽम्बिका ॥ अथास्य सङ्घस्य विसर्पतोऽग्रतः, शताङ्गचक्रोचितचीत्कृतस्वनः । नदन्महोक्षध्वनिवर्मितोऽपि सन् , हयालिहेषाभिरलाभि लाघवम् ॥ पवित्रमेतत् तिलकाय नित्यशः, परस्परस्पर्द्धिभिरूर्ध्वमुत्सुकैः । तदा सदारैः समवापि दैवतैः, मुदैव तैः सङ्घविहारजं रजः ॥ अभूत् तदा सङ्घपदाभिषङ्गत-स्तथा कथञ्चिद् विरजस्तमा मही । यथाधिरूढाऽपि शिरस्यहीशितु-श्चकार नो भारमुदारविग्रहा ॥ विभेद्य लोभेन धवान् धवान्तरै-र्यया प्रपेदे प्रतिघातपातकम् । पवित्रिता सङ्घपदैर्दिवं ययौ, मही स्वदेहेन रजोमयेन सा॥ महानय सङ्घजनोऽचलत् कथं, धरिष्यथ दमामिति जल्पितुं तदा । गतैः समीपं किल रेणुभिः ककुप्-करेणुभिर्मक्षु मदो निराकृतः ॥ रजस्तदा विस्तृतसङ्घसम्भवं, नभोनदीतीरगनीरगर्भितम् । इहापि गङ्गामृदलाभि दुर्लभे-त्यकर्षि सप्तर्षिभिराशु हर्षिभिः ॥ द्विजेश्वरश्रीहृतिपातकादिव, द्रुतं दिवः पातिभिरर्कभानुभिः । पवित्रसङ्घक्रमरेणुसङ्गमा-दसङ्गमूइँव गतिः स्म तन्यते ॥ विसर्पता सङ्घजनेनं मेदिनी, पवित्रिर्ता प्रत्युपकारिणी ततः । उदस्य धूलीस्तपनातपं व्यधाद् , व्यधाच्च तूर्णं सुतरास्तरङ्गिणीः ।। चलाचलायां भुवि सङ्घसङ्गमात्, तदा तरन्न्यामिव धर्मवारिधौ । जगद्भरोऽस्माकमवातरत्तरा-मिति स्म नृत्यन्ति मुदा महीभृतः ।। अथाघशल्यानि निरासितुं रया-दनेन सङ्घन परोपकारिणा । शताङ्गचक्रप्रधिलीलयाऽवनि-विदार्यमाणा सरवं व्यकम्पत ।। अमुष्य सङ्घस्य विलइनक्रियां, वितन्वतोऽपि क्रमशौचकर्मठः । स्फुटस्फुरत्फेननिभेन भेजिवान् , शुचीनि पुण्यानि तरङ्गिणीगणः ॥ क्रमक्रमस्थापितवारि-शर्करा-करम्ब-वालुङ्कविभूषितप्रपः । स्थितं गृहक्रोड इव प्रमोदिनं, निनाय मन्त्री जनमित्थमध्वनि ॥ सृजन् जनः पूजनमुत्सवोत्सुकः, पुरे पुरे तीर्थकृतां कृताञ्जलिः । अलं व्यलद्दिष्ट नहीं महीयसी-मसीमसम्भावितभावनाद्भुतः ॥ समीपसङ्केतनिकेतनं शिव-श्रियो वियन्मानसमुन्नतं ततः । पुरः पुरं धर्मनृपस्य पश्यति, स्मितः स्म शत्रुञ्जयपर्वतं जनः ॥ ३० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002505
Book TitleKirti Kaumudi tatha Sukrut Sankirtan
Original Sutra AuthorSomeshwar Mahakavi, Arisinh Thakkur Kavi
Author
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages168
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy