SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् ] सुकृतसंकीर्तनमहाकाव्यम् । अगण्यपुण्यैर्भवसिन्धुपारभू-रभूदयं लोचनगोचरो गिरिः । इति से यस्मेरहृदो विदस्तदा, ससम्मदाश्चक्रुरहो ! महोत्सवम् ॥ गतोऽग्रतोऽस्मिन् दुरितैरनाविलो, विलोक्य नाभेयनिकेतकेतनम् । जनस्तदा शर्मरसोर्मिविक्लवो, मदान्न किं किं रचयाञ्चकार सः ॥ ननर्त्त कश्चित् पृथुसम्मदस्तदा, सलीललोलायितपाणिपल्लवः । प्रतिप्रतीकं परितः कुतूहला-दलं यथाऽऽलोक्यत पुण्यसम्पदा ।। बहूत्पतत्पादयुगस्तदाऽपरो, ननत दूरप्रसरत्करच्छदः । . विधातुमुड्डीय नगाधिरोहणं, मनोरथी पत्ररथीभवन्निव ।। भवभ्रमिश्रान्ततुरः शिरोधरा-ऽधिरोपितं पापभरं त्यजन्निव । इलामिलन्मौलिरमन्दसम्मदो, ननाम विश्रामविधित्सया परः ।। विलोकयन् कोऽपि वृषध्वजध्वज, मुहुर्मुहुर्मक्षु नमन्नमन्दधीः । उदञ्चित-न्यञ्चितमौलिलीलया, रराज मुक्तिश्रियमाह्वयन्निव ॥ अमुत्र शत्रुञ्जयशैलसन्निधौ, भवार्णवस्येव तटे तदा परः । निरीयितुं पातकजातकर्दमा-लुलोठ सर्वाङ्गमुदारधीर्मुदा ॥ समुद्भवद्भावरसादचेतन-श्चिराय नृत्यादिविवेकवर्जितः । परः शिलापुत्रसमोऽपि बाष्पवा-नमोचि रिष्टैरपि रिष्टशङ्कितैः ॥ इहाथ पाथस्तृणराजिराजिते, जितेन्द्रियो मन्त्रिपतिर्महीतले । श्रमापनोदार्थमदापयत् तदा, निवासमासन्नममुण्य भूभृतः ।। अथावजत् खिन्नजलप्रमोदिनो, दिनोपतापे सचिवः स किङ्करान् । मरुत्त्वरान् औषयदेष तत्क्षणं, शिखिच्छदच्छन्नविडम्बिताम्बुदान् ॥ सुवंशसंयोजितरूपशोभिता, विचित्रिता धातुरसेन सर्वतः । पदे पदे पर्वतपादसोदरा, वितेनिरे पीवरचीवरालयाः ॥ अनांसि धर्मक्षितिपस्य वप्रवत् , पदे पदे मण्डलितानि रेजिरे । तृणं द्विषत्पापमिवोदमूलयन् , यतो विनिस्सृत्य वृषा भटा इव ॥ गिरौ गतिं पश्यत नः कुतूहलात् , कथं वृथा मुञ्चत भूतले समे ? । इतीव चाटूक्तिकृतस्तृणं मुखे, वृषा व्यधुर्बध्नति सारथौ पुरः ॥ नेयेन सङ्घस्य रसातलं यया, कथं समाकृष्यत साऽपि भिन्महे (?) । नवीनचुल्लीविवरापदेशतः, खनन्ति भूखण्डमिति स्म किङ्कराः ॥ १ क-ख पुस्तके ४४ तमं काव्यं नास्ति ॥ सु० १५ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.002505
Book TitleKirti Kaumudi tatha Sukrut Sankirtan
Original Sutra AuthorSomeshwar Mahakavi, Arisinh Thakkur Kavi
Author
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages168
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy